संस्कृत-शब्दकोशः

विपदा विपन्न

विपद्

वाचस्पत्यम्

विपद्(दा) ||‍ स्त्री वि + पद—सम्प० क्विप् वा टाप् । १ विपत्तौ ज्यो० उक्ते जन्मतारातः तृतीयद्वादशैकविंशतिसंख्याक नक्षत्रे च “विपत्तारे गुडंदद्यात्” ज्यो० त० ।


शब्दकल्पद्रुमः

विपद् || स्त्री (वि + पद् + सम्पदादित्वात् क्विप् ।)
विपत्तिः । इत्यमरः ॥ (यथा, —
“कैवर्त्तकर्क्कशकरात् सफरश्च्युतोऽपि जाले पुनर्निपतितः सफरो विपाकः । दैवात्ततो विगलितो गिलितो वकेन वामे विधौ वद कथं विपदां निवृत्तिः ॥” इत्युद्भटः ॥ यथा च मागवते । १ । ९ । १५ । “यत्र धर्म्मसुतो राजा गदापाणिर्व्वृकोदरः । कृष्णोऽस्त्री गाण्डिवं चापं सुहृत् कृष्णस्ततो विपत् ॥”)



Correction: