संस्कृत-शब्दकोशः

विपर्णक विपर्यस्त

विपर्यय

वाचस्पत्यम्

विपर्य्यय ||‍ पु० वि + परि + इण—अच् । व्यतिक्रमे । २ अतस्मिं- स्तद्बुद्धौ च । पात० उक्ते ३ चित्तवृत्तिभेदे “विपर्य्ययो मिथ्याज्ञानमतत्प्रतिष्ठम्” पात० सू० । ||‍“संशयस्यापि विपर्य्यत्वमतद्रूपप्रतिष्ठानत्वात् तस्य तद्धर्मिकभावाभावगोचरतया एकांशे अतद्रूपप्रतिष्ठत्वान पायात् । स कस्मात् न प्रमाणम्? । यतः प्रमाणन बा- ध्यते भूतार्थविषयत्वात् प्रमाणस्य, तत्र प्रमाणेन बाध- नमप्रमाणस्य दृष्ठम् । तद्यथा द्विचन्द्रदर्शनं सद्विषययेणैक- चन्द्रदर्शनेन बाध्यते” भा० । “स च पञ्चविधः अविद्या- ऽस्मितारागद्वेशामिनिवेशाः पञ्च क्लेशाः” पात० सू० । इति पञ्च विपर्य्याया । इत्यादि भा० ।


शब्दकल्पद्रुमः

विपर्य्ययः || पुं, (वि + परि + इ + “एरच् ।” इत्यच् ।)
व्यतिक्रमः । तत्पर्य्यायः । व्यत्यासः २ विपर्य्यासः ३ व्यत्ययः ४ । इत्यमरः ॥ विपर्य्यायः ५ । इति भरतः ॥ (यथा, भागवते । १० । १ । ५० । “विपर्य्ययो वा किं न स्याद्गतिर्धातुर्दुरत्यया । उपस्थितो निवर्त्तेत निवृत्तः पुनरापतेत् ॥” सांख्यनये विपर्य्ययाः पञ्च । ते च सांख्यकारि- कायां द्रष्टव्याः ॥)



Correction: