संस्कृत-शब्दकोशः

विपाशा विपिन

विपाश्

वाचस्पत्यम्

विपाश्(शा) ||‍ स्त्री विगतः पाशो वशिष्ठस्य यस्याः । स्वनामख्याते नदीभेदे अमरः । विपाशयति विभुक्तपाशं वशिष्ठं करोति विपाश + णिच्—क्विप् । तत्रार्थे अमरः । तस्या- स्तथात्वकथा भा० आ० १७७ अ० । “अथ पाशैस्तदात्मानं गाढं वद्ध्वा महामुनिः (वशिष्ठः) तस्या जले महानद्या निममज्ज सुदुःखितः । अथ छित्त्वा नदी पाशांस्तस्यारिबलसूदन! । स्थलस्थ तमृषि कृत्वा विपाशं समवासृजत् । उत्ततार ततः पाशैर्विमुक्तः स महानृषिः । विपाशेति च नामा- स्यानद्याश्चक्र महामुनः” “शतद्रोर्विपाशायुजः सिन्धु- नद्याः सुशीतं लघु स्वादु सर्वामयघ्नम् । जलं निर्मलं दीपनं पाचनञ्च प्रदत्ते बलं बुद्धिमेधायुषञ्च” राजनि० ।


शब्दकल्पद्रुमः

विपाट् || [श्] स्त्री, विपाशानदी । इत्यमरः ॥ (यथा, ऋग्वेदे । ३ । ३३ । १ । “गावेव शुभ्रे मातरा रिहाणे विपाट्छुतुद्री पयसा जवेते ॥” “विपाट् कूलविपाटनात् विपाशनात् शतपुत्त्र- मरणोद्भूततमोवृतेर्म्मुमूर्षोर्वशिष्ठस्य पाशा अस्यां व्यपास्यन्त विमोचनाद्वा विपाट् । शुतुद्री शुक्षिप्रं तुन्ना तुन्नेव द्रवति गच्छतीति शुतुद्री एत- न्नागके नद्यौ ॥ प्रजवेते समुद्रं प्रति शीघ्रं गच्छतः । *** विपाट् पटगतौ । पशवाधन- स्पर्शनयोरितिवा ण्यन्तावेतौ विपूर्ब्बौ शकारस्य ब्रश्चादिना षत्वम् ॥” इति तद्भाष्ये सायणः ॥)



Correction: