वाचस्पत्यम्
विपिन || न० वप—इनन् पृषो० । वने अमरः ।
शब्दकल्पद्रुमः
विपिनं || क्ली (वेपन्ते जना यत्रेति । “वेपितुह्यो- र्ह्रस्वश्च ।” उणा० २ । ५२ । इनन् । ह्रस्व- त्वञ्च ।)
वनम् । इत्यमरः ॥ (यथा, महानाटके । “यच्चिन्तितं तदिह दूरतरं प्रयाति यच्चेतसा न गणितं तदिहाभ्युपैति । प्रातर्भवामि वसुधाधिपचक्रवर्त्ती सोऽहं व्रजामि विपिने जटिलस्तपस्वी ॥” भीतिप्रदे, त्रि । यथा, भागवते । ९ । १५ । २३ । “स एकदा तुंमृगयां विचरन् विपिने वने । यदृच्छयाश्रमपदं जमदग्नेरुपाविशत् ॥” विजने वने इत्यपि क्वचित् पाठः ॥)