संस्कृत-शब्दकोशः

विप्रकाष्ठ विप्रकृति

विप्रकृत

वाचस्पत्यम्

विप्रकृत ||‍ त्रि० वि + प्र + कृ—क्त । १ उपद्रुते, २ तिरस्कृते च “त- स्मिन् विप्रकृताः काले” कुमारः ।


शब्दकल्पद्रुमः

विप्रकृतः || त्रि (वि + प्र + कृ + क्तः ।)
तिरस्कृतः । तत्पर्य्यायः । निकृतः २ । इति हेमचन्द्रः ॥ (यथा, कुमारसम्भवे । २ । १ । “तस्मिन् विप्रकृताः काले तारकेण दिवौकसः । तुराषाहं पुरोधाय घाम स्वायम्भुवं ययुः ॥”)



Correction: