संस्कृत-शब्दकोशः

विप्रकृति विप्रकृष्टक

विप्रकृष्ट

वाचस्पत्यम्

विप्रकृष्ट ||‍ त्रि० वि + प्र + कृष—क्त । दूरस्थे हला० । स्वाथं क । तत्रैवार्थे अमरः ।


शब्दकल्पद्रुमः

विप्रकृष्टः || त्रि (वि + प्र + कृष + क्तः ।)
दूरः । इति हलायुधः ॥ (यथा, —
“सन्निकृष्टविप्रकृष्टव्यभिचारिप्राधानिकमेदाच्च- तुर्धा इति । नच ते चयादिकमपेक्षन्ते । विप्र- कृष्टो यथा । हेमन्ते नि चतः श्लेष्मा वसन्ते कफरोगकृत् । किंवा सन्निकृष्टो ज्वरस्य रुक्षादि- सेवा विप्रकृष्टो रुद्रकोपः ।” इति माधवकृत रुग्विनिश्चयव्याख्याने विजयः ॥)



Correction: