संस्कृत-शब्दकोशः

विप्रकृष्टक विप्रतिपत्ति

विप्रचित्ति

वाचस्पत्यम्

विप्रचित्ति ||‍ पु० वि + प्र + चित—क्तिच् । दानवभेदे ।


शब्दकल्पद्रुमः

विप्रचित्तिः || पुं, दनुपुत्त्रः । यथा, — सूत उवाच । “अभवद्दनुपुत्त्राश्च वंशे ख्याता महासुराः । विप्रचित्तिप्रधानास्ते शतं तीव्रपराक्रमाः ॥” इति वह्निपुराणे काश्यपीयवंशः ॥ (तथाच महाभारते । १ । ६५ । २१ । “चत्वारिंशद्दनोः पुत्त्राः ख्याताः सर्व्वत्र भारत । तेषां प्रथमजो राजा विप्रचित्तिर्म्महायशाः ॥”)



Correction: