विप्रदह
विप्रयाण
विप्रप्रिय
शब्दकल्पद्रुमः
विप्रप्रियः || पुं, (विप्राणां पियः । यज्ञीयद्रुमत्वात् ।)
पलाशवृक्षः । इति केचित् ॥ ब्राह्मणवल्लभे, त्रि । यथा, —
“रामं लक्ष्मणपूर्ब्बजं रघुवरं सीतापतिं सुन्दरं काकुत्स्थं करुणामयं गुणनिधिं विप्रप्रियं धार्म्मिकम् ।” इति रामायणम् ॥