संस्कृत-शब्दकोशः

विप्रोषित विप्लाव

विप्लव

वाचस्पत्यम्

विप्लव ||‍ पु० वि + प्लु—अप् । १ परनृपतिराष्ट्रादिता भये । २ राष्ट्रो- पद्रव च अमरः ।


शब्दकल्पद्रुमः

विप्लवः || पुं, (वि + प्लु + अप् ।)
परचक्रादिभयम् । इति भरतः ॥ राष्ट्राद्युपद्रवः । इति सार- सुन्दरी ॥ तत्पर्य्यायः । डिम्बः २ डमरः ३ । इत्यमरः ॥ (यथा, राजतरङ्गिण्याम् । ८ । १०४१ । “सर्व्वां मडवराज्योर्व्वीं वीरः शमितविप्ल- वाम् ॥”)
अस्त्रकलहः । इति स्वामी ॥ (क्लेशः । उप- द्रवः । यथा, भागवते । ४ । २६ । ९ । “विप्लवोऽभूद्दःखितानां दुःसहः करुणात्मनाम् ॥ विनाशः । यथा, कथासरित्सागरे । १३ । ८२ । “संमन्त्र्य कौतुकात् पापास्तद्भार्य्याशीलविप्लवम् । चिकीर्षवो ययुः शीघ्रं ताम्रलिप्तीमलक्षिताः ॥” विप्लवते इति अच् । जलोपर्य्यवस्थितः । यथा, महाभारते । ९ । ३ । ५ । “बणिजो नावि भग्नायामगाधे विप्लवा इव ॥”)



Correction: