संस्कृत-शब्दकोशः

विबाधा विबुधान

विबुध

वाचस्पत्यम्

विबुध ||‍ पु० वि + बुध—क । १ पण्डिते मेदि० २ देवे अमरः “विबुधसखः” भट्टिः । ३ चन्द्रे च हेमच० ।


शब्दकल्पद्रुमः

विबुधः || पुं, (विशेषेण बुध्यते इति । बुध + कः ।)
देवः । इत्यमरः ॥ (यथा, मनौ । १२ । ४७ । “गन्धर्व्वा गुह्यका यक्षा विबुधानुचराश्च ये ॥”)
पण्डितः । इति मेदिनी । धे, ३६ ॥ (यथा, कथासरित्सागरे । ६३ । १०५ । “ब्रवीमि विबुधः खेदं जनानां निह्नुते कथम् ॥” अस्मिन्नर्थे वाच्यलिङ्गेऽपि दृश्यते ॥ * ॥
)
चन्द्रः । इति हलायुधः ॥



Correction: