शब्दकल्पद्रुमः
विबोधनं || क्ली (वि + बुध + ल्युट् ।)
प्रबोधनम् । यथा, —
“तुष्टाव योगनिद्रान्तामेकाग्रहृदयस्थितः । विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् ॥” इति देवीमाहात्म्यम् ॥ (जागरणम् । यथा, महाभारते । १ । १०० । ८ । “वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः ॥” प्राप्तिबोधके, त्रि । यथा, ऋग्वेदे । ३८ । २२ । “अदाद्रायो विबोधनम् ।” “रायो धनस्य विबोधनं विशेषेण बोधकं बहु- धनप्राप्तिहेतुमित्यर्थः ।” इति तद्भाष्ये सायणः ॥