वाचस्पत्यम्
विभक्त || त्रि० वि + भज—क्त । १ पृथक्कृते २ विभिन्ने कृत- विभागे च ३ भाव क्त । ३ विभागे ४ भेदे न० । “पञ्चमी विभक्ते” पा० । यस्य विभागः कृतः ५ तादृशे धने “अविभक्तं स्थावरं यत् सवषामेव तत् भवेत् । विभक्तं स्थावरं ग्राह्यं नान्योदर्य्यैः कथञ्चन” यमवचनम् । तदस्यास्ति अच् । येन धनस्य विभागःकृतस्तस्मिन् ६ जने तत्र । विभक्तधर्मादिकं दायभागादौ दर्शितं यथा “भ्रातॄणां जीवतोः पित्रोः सहवासो विधीयते । तद भावे विभक्तानां धर्मस्तेषां विवर्द्धते” “विभक्तानां स्व- मात्रधनेन वैदिककरणातन्मात्रधर्मत्वेन तद्वृद्धिः” दाय० त० रघु० । “दानग्रहणपश्वन्नगृहक्षेत्रपरिग्रहाः । विभक्तानां पृथग् ज्ञेयाः पाकधर्मागमव्ययाः । साक्षित्वं प्रातिभाव्यञ्च दानं ग्रहणमेव च । विभक्ता भ्रातरः कुर्युर्नाविभक्ताः परस्परम् । येषामेताः क्रिया लोके प्रवर्त्तन्ते स्वरिक्यतः । विभक्तानवगच्छेयुर्लेख्यमप्य- न्तरेण तान्” नारदः “भ्रातृनामथ दम्पत्योः पितृः पुत्रस्य चैव हि । प्रातिभाव्यमृणं साक्ष्यमविभक्ते न तद् भवेत्” याज्ञ० । “बन्धूनासविभक्तानां भोगं नैव प्रदापयेत्” कात्या “भ्रातॄणामविभक्तानामेको धर्म प्रवर्त्तते । विभागे सति धर्मोऽपि भवेत् तेषां पृथक् पृथक्” कात्या० “अविभक्ता विभक्ता वा कुर्युः श्राद्धञ्च दैविकम् । मघा- सु च तथान्यत्र नाधिकार पृथग् विना” श्रा० त० धृत- वचनम् । “वहवः स्युर्यदा पुत्राः पितुरेकत्रवासिनः । सर्वेषां तु मतं कृत्वा ज्येष्ठेनैव तु यत् कृतम् । द्रव्येण चाविभक्तेन मर्वैरेव कृतं भवेत्” शु० त० । “अविभक्ता विभक्ता वा सपिण्डाः स्थावरे समाः । एको ह्यनीशः सर्वत्र दानाधमनविक्रये” नारदः । “एतत् दुर्वृत्त- पुरुषविक्रयविषयमिति” दाय० त० रघु० ।
शब्दकल्पद्रुमः
विभक्तः || त्रि (वि + भज् + क्तः ।)
प्राप्तविभागः । विभिन्नः । पृथक् । यथा । बृहस्पतिः । “पित्रा सहविभक्ता ये सापत्न्या वा सहोदराः ॥ जघन्यजाश्च ये तेषां पितृभागहरास्तु ते । अनीशः पूर्ब्बजः पित्र्ये भ्रातृभागे विभक्तजः ॥” विभक्तजो विभागानन्तरं गर्भाधानेन जातः ॥ अपि च । व्यासः । “भ्रातॄणां जीवतोः पित्रोः सहवासो विधीयते । तदभावे विभक्तानां धर्म्मस्तेषां विवर्द्धते ॥” विभक्तानां स्वमात्रधने वैदिककर्म्मकरणात्तन्मा- म्रधर्म्मत्वेन तद्वृद्धिरित्यर्थः । “विभक्ता अविभक्ता वा सपिण्डाः स्थावरे समाः । एको ह्यनीशः सर्व्वत्र दानाधमनविक्रये ॥” अपि च । “दानग्रहणपश्वन्नगृहक्षेत्रपरिग्रहाः । विभक्तानां पृथक् ज्ञेयाः पाकधर्म्मागमव्ययाः ॥ साक्षित्वं प्रातिभाव्यञ्च दानं ग्रहणमेव च । विभक्ता भ्रातरः कुर्य्युर्नाविभक्ताः परस्परम् ॥ येषामेताः क्रिया लोके प्रवर्त्तन्ते स्वऋक्थतः । विभक्तानवगच्छेयुर्लेख्यमप्यन्तरेण तान् ॥” इति नारदवचनानि ॥ तथा । “भ्रातॄणामथ दम्पत्योः पितुः पुत्त्रस्य चैव हि । प्रातिभाव्यमृणं साक्ष्यमविभक्तेन तत् स्मृतम् ॥” इति याज्ञवल्क्यवचनम् ॥ * ॥
तथा । “विभक्तो यः पुनः पित्रा भ्रात्रा चैकत्र संस्थितः । पितृव्येणाथवा प्रीत्या स तु संसृष्ट उच्यते ॥” इति बृहस्पतिवचने येषामेव हि पितृभ्रातृ- पितृव्यादीनां पितृपितामहोपार्ज्जितद्रव्येणा- विभक्तत्वमुत्पत्तितः सम्भवति त एव विभक्ताः सन्तः परस्परप्रीत्या पूर्ब्बकृतविभागध्वंसेन यत्तव धनं तन्मम धनं यन्मम धनं तत्तवापि इत्येक- स्मिन् कार्य्ये एकगृहिरूपतया स्थिताः संसृष्टाः । न त्वेवं रूपाणां धनसंसर्गमात्रेण । नापि विभ- क्तानां प्रीतिपूर्ब्बकाभिसन्धानं विना ॥ * ॥
तथा । “बन्धूनामविभक्तानां भोगं नैव प्रदापयेत् ॥” इति कात्यायनवचनम् ॥ तथा । “भ्रातॄणामविभक्तानामेको धर्म्मः प्रवर्त्तते । विभागे सति धर्म्मोऽपि भवेत्तेषां पृथक्पृथक् ॥” तथा । “भ्रातॄणामविभक्तानां यद्युत्थानं भवेत् सह । न तत्र भागं विषमं पिता दद्यात् कथञ्चन ॥” इति मनुवचनम् ॥ तथा । कात्यायनः । “अविभक्ते मृते पुत्त्रे तत्सुतं ऋक्थभागिनम् । कुर्व्वीत जीवनं येन लब्धं नैव पितामहात् । लभेतांशं स पित्र्यं च पितृव्यात् तस्य वा सुतात् ॥” तथा । विष्णुः । पितृविभक्ता विभागानन्तरो- त्पन्नस्य विभागं दद्युः ॥ * ॥
अपि च । “अविभक्तविभक्तानां कुल्यानां वसतां सह । भूयो दायविभागः स्यादाचतुर्थादिति स्थितिः ॥” इति कात्यायनवचनम् ॥ अविभक्तानां सह वसतां संसृष्टानां वा पुन- र्विभागो भ्रातृतत्सुततत्सुतपर्य्यन्तमेव तत्सुता- च्चतुर्थान्निवर्त्तते । इति ॥ तथा । “अविभक्तं स्थावरं यत् सर्व्वेषामेव तद्भवेत् । विभक्तं स्थावरं प्राप्तं नान्योदर्य्यैः कदाचन ॥” इति यमवचनम् । एतानि वचनादीनि दाय- तत्त्वधृतानि ॥ * ॥
अपि च । “अविभक्ता विभक्ता वा कुर्य्युः श्राद्धमदैविकम् । मघासु च तथान्यत्र नाधिकारः पृथक् विना ॥” इति श्राद्धतत्त्वम् ॥ अन्यच्च । “बहवः स्युर्यदा पुत्त्राः पितुरेकत्र वासिनः । सर्व्वेषान्तु मतं कृत्वा ज्येष्ठेनैव तु यत् कृतम् । द्रव्येण चाविभक्तेन सर्व्वैरेव कृतं भवेत् ॥” इति शुद्धितत्त्वम् ॥ (पुं, कार्त्तिकेयः । यथा, महाभारते । ३ । १३१ । ६ । “षष्ठीप्रियश्च धर्म्मात्मा पवित्रो मातृवत्सलः । कन्याभर्त्ता विभक्तश्च स्वाहेयो रेवतीसुतः ॥”)