शब्दकल्पद्रुमः
विभक्तजः || पुं, (विभक्ते सति जायते इति । जन + डः ।)
विभागानन्तरं गर्भाधानेन जातः । यथा । बृहस्पतिः । “पित्रा सह विभक्ता ये सापत्न्या वा सहोदराः । जघन्यजाश्च ये तेषां पितृभागहरास्तु ते ॥ अनीशः पूर्ब्बजः पित्र्ये भ्रातृभागे विभक्तजः । यथा धने तथर्णेऽपि मुक्त्रा शौचोदकक्रियाः ॥” इति दायतत्त्वम् ॥