संस्कृत-शब्दकोशः

विभव विभाकर

विभा

वाचस्पत्यम्

विभा ||‍ स्त्री वि + भा—अचा १ किरणे हेमच० २ शोमायां ३ प्रकाशे च राजनि० ।


शब्दकल्पद्रुमः

विभा || स्त्री (वि + भा + क्विप् ।)
किरणः । इति हेमचन्द्रः ॥ प्रकाशः । शोभा । इति राज- निर्घण्टः ॥ (यथा, साहित्यदर्पणे । १० । ६६७ । “कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः । धरणीव धृतिर्धृतिरिव धरणी सततं विभाति वत यस्य तव ॥” प्रकाशके, त्रि । यथा, ऋग्वेदे । १० । ५५ । ४ । “यदुष औच्छः प्रथमा विभानाम् ॥” “विभानां विभासकानां ग्रहनक्षत्रादीनाम् ।” इति तद्भाष्ये सायणः ॥)



Correction: