संस्कृत-शब्दकोशः

विभा विभाग

विभाकर

वाचस्पत्यम्

विभाकर ||‍ पु० विभा प्रकाशं करोति कृ—अच् । १ सूर्य्ये २ अर्कवृक्ष च । ३ चित्रकवृक्षे अमरः ४ अग्नौ मेदि० ।


शब्दकल्पद्रुमः

विभाकरः || पुं, (वि + भा + कृ + “दिवाविभा- निशेति ।” ३ । २ । २१ । इति टः ।)
सूर्य्यः । (यथा, साहित्यदर्पणे । १० । अर्थश्लेशे । “सहसा भूयसाविष्टो विभाति च विभाकरः ॥”)
अर्कवृक्षः । चित्रकवृक्षः । इत्यमरः । अग्निः । इति मेदिनी । रे, २९७ ॥ (त्रि, प्रकाशशीलः ॥)



Correction: