संस्कृत-शब्दकोशः

विभाग विभाण्डक

विभाज्य

वाचस्पत्यम्

विभाज्य ||‍ त्रि० विमक्तुमर्हति वि + भज—अहांर्थे ण्टत् । विभागयोग्ये विभजनीये धनादौ । “कुले विनीतविद्यानां भ्रातॄणां पितृतोऽपि वा । शौर्य्य- प्राप्तं तु यद्वित्तं विभाज्य तद्वृहस्पतिः” ।


शब्दकल्पद्रुमः

विभाज्यं || त्रि विभजनीयम् । विभागार्हम् । यथा, “कुले विनीतविद्यानां भ्रातॄणां पितृतोऽपि वा । शौर्य्यप्राप्तन्तु यद्वित्तं विभाज्यं तद्बृहस्पतिः ॥ शिल्पेष्वपि हि धर्म्मोऽयं मूल्याद्यच्चाधिकं भवेत् । परं निरस्य यल्लब्धं विद्यया द्यूतपूर्ब्बकम् । विद्याधनन्तु तद्विद्यान्न विभाज्यं बृहस्पतिः ॥” तथा । “शौर्य्यभार्य्याधने चोभे यच्च विद्याधनं भवेत् । त्रीण्येतान्यविभाज्यानि प्रसादो यच्च पैतृकः ॥” इति दायतत्त्वम् ॥



Correction: