वाचस्पत्यम्
विभाग || पु० वि + भज—भावे घञ् । १ भागे पूर्वस्वामिस्वत्वना- शोत्तरं तत्सम्बन्धाधोनजातस्वत्वस्य २ व्यञ्जले व्यापारभेदे दायभागादि । सामान्यधर्मयुतानां बहूनां परस्परविरु- द्धतद्व्याप्यधर्म प्रकारेणा ५ प्रतिपादने श्रीकृष्णः । वैशे- मिकोक्ते ४ गुणभेदे तल्लक्षणविभागादि कणा० सू० । वृ० दर्शितं यथा “एतेन विभागो व्याख्यातः” कणा० सू० । “विभागे संयोगोत्पत्तिप्रकारमतिदिशन्नाह संयोगवद्विमागो- ऽप्यन्यतरकर्मज १ उभयकर्मजो २ विभागजश्च ३ श्येनकर्म- णास्थाणुश्येनविभागः १ संयुक्तवोर्मल्वयोर्मेप्रयोर्वा कर्मम्यां तदुभयविभागः २ सचायं कर्मोत्पत्त्यव्यहितचाणोत्पत्तिकः अपेक्षणीयान्तराभावात तदुक्तं “संयोगविमागयोरन- पेक्षकारणं कर्म इति विभागे जननीये आश्रयः” सं- योगे च जननीये पूर्वसंयोगनाशश्चापेक्षणीय इति चेन्न स्वोत्पत्त्यनन्तरोत्पत्तिकभावभूतानपेक्षत्वस्य कर्मणो निर- पेक्षत्वात् । विभागज ३ स्तु विभागो द्विविधः कारणमात्र विभागजकारणाकारणविभाग १ भदात् कारणाकारण- विभागजकार्य्याकार्य्यविभाग २ भेदाच्च तत्र कारणमात्र विभागात् कारणाकारणावभागो यथा कपालद्वयविभा- गात् कपालाकाशविभागः १ कारणाकारणविभागाच्च कार्य्याकार्य्यविभागो २ यथाऽङ्गुलीतरुविभागाद्धस्ततरुवि- भागस्ततः शरीरतरुविभाग इति । ननु विभान एव- न प्रमाणं संयोगाभाव एव विभागव्यवहारादिति चेन्न संयोगाभावोऽत्यन्ताभावश्चेत् गुणकर्मणोरपि विभागव्यव- हारप्रसङ्गात् द्रव्ययोर्वर्त्तमानः संयोगात्यन्ताभावो वि- भक्तप्रत्ययहेतुरिति चेन्नाबयवायवविनोरपि प्रसङ्गात् अकार्य्यकारणभूतयोर्द्रव्ययोरिति चेत् यिन्ध्यहिमवतो- रपि स्यात् भ्वत्येव तत्रेति चेन्न भ्रान्तस्य गुणकर्मणो- रपि भावात् अभ्रान्तमधिकृत्य व्यवहारस्य चिन्त्यमानत्वात् संयोगविनाशा विभाग इति चेत् एकतरसंयोगिनाशेन नष्टे संयोगे तद्व्यवहारप्रसङ्गात् संयोगिनोर्विद्यमान- योरिति चेत् एकसंयोगनाशानन्तरं पुनः संयुक्तयोः कुवलामलकयोः संयोगदशायामपि विभक्तप्रत्ययप्रसङ्गात् यावत्संयोगनाशस्तथेति चिदेकसंयोगनाशे तदभाव- प्रसङ्गात् तत्र यावदर्थाभावात् । तस्मादस्ति विभागोऽर्था न्तरम् स च गुणः विरोधिगुणान्तरनाश्यः विरोधिनं समानाधिकरणं गुणमन्तरेण सत्याश्रये गुणनाशानुपपंत्तेः कमव संयोगनाशकं स्यादिति चेन्न विरोधिनो गुणस्य गुणनाशकत्वात् । किञ्च यत्राङ्गुलीहस्तभुजशरीराणां स्वस्वकर्मणा तरुसंयोगस्तत्राङ्गुलीमात्रे समुत्पन्नेन वर्म- णाऽङ्गुलीतरुसंयोगनाशसम्भवेऽपि हस्ततरुमुजतरुशरीर- तरुर्सयोगानामनाशप्रसङ्गात् हस्तादीनामक्रियत्वात् अ- ङ्गुलीकर्मणश्च व्याधकरणत्वात् व्यधिकरणस्यापि कर्मणः संयोगनाशकत्वे क्वचिदप्युत्पन्नेन कर्मणा युगपदेव सर्व- संयोगनाशापत्तः । त्वन्मते तत्र का गतिरिति चेत् अङ्गुलो तरुविभागेन जनिती हस्ततरुविभागो हस्ततरुसंयोग- नाशक इत्यभ्युपगमात् । व्यधिकरणेनाङ्गुलीकर्मणैव ह- स्ततरुसंयोगनाशोऽस्तु न चातिप्रसङ्गः आश्रयाश्रित परम्परासंयोगस्यैव व्यधिकरणकर्मनाष्ट्यत्वाभ्युपगमा- दिति सर्वज्ञेन यदुक्तं तदपि न युक्तं विरोधिनः स- मानाधिकरणस्यैव सर्वत्र नाशकत्वानुभवात् वाधकमन्यरेण तत्परित्यागामुपपत्तेः । शब्दविभागौ च विभागकाव्यौ तत्र विभागस्य शब्दासमबायिकारणत्वं न मृष्यामहे न हि वंशे पाट्यमाने दले च चरणयन्त्रणाबष्टब्धे दला- न्तरे चोपरिकृष्यमाणे यः शब्दोजायते तत्र दलाकाश- विभागादन्य दसमवायिकारणं पश्यामः । न च दवदह नदह्यमानस्फुटद्वेणुचीत्कारे विभागातिरिक्तमसमवा- यिकारणं पश्यामः । कारणाकारणविभागाच्च कार्य्या- कार्य्यविभागमनुमन्यामहे कथमन्यथा स्वस्वकर्मजनिताङ्गु- लीतरुसंयोगभुजतरुसंयोगशरीरतरुसंयोगानामङ्गुलीमा- त्रोत्पन्नकर्मणाऽङ्गुलीतरुविभागे सति अङ्गुलीतरुसंयोम- नाशे सत्यपि हस्ततरुसंयोगादीनां नाशः तत्र हि विभागजविभागपरम्परैव तत्तत्संयोगनाशिकेत्युक्तत्वात् कारणद्वयविभागपूर्वके तु कारणाकारणविभागे न संप्र- त्ययः यतोवंशदले यदुत्पन्नं कर्म तेन दलान्तरविभाग- वदाकाशादिविभागस्यापि जननसम्भवात् यावद्भिः समं तद्दलं संयुक्तमासीत् तावद्भिस्तत्कर्मणा विभागस्य दर्श- नात् नह्यङ्गुल्य सुत्पन्नेन कर्मणाऽङ्गुल्यन्तरावभागवदा- काशादिदेशेभ्योऽपि विभागा न जन्यन्ते । कमकलदले चोत्पन्नेन कर्मणा दलान्तरविभागवदाकाशादिदेशेभ्यो वा न विभागा आरभ्यन्ते द्रव्यारम्भकसंयोगाविरोधिनः शतमपि विभामानेकं कर्मारमताम् । यत्तु कर्म द्रव्यार- म्भकसंयोगविरोधिनं विभागमारभते न तत् द्रव्यारम्भक- सयोगाविरोधिनमपि यच्च द्रव्यारम्भकसयोगाविरोधिनं तद् द्रव्यारम्भकसंयोविरोधिनमिति व्रूमः । कुत एतदिति चेत् कार्य्यवैचित्र्येण कारणवैचित्र्यस्यावश्यकत्वात् । ननु कर्मणि वैचित्र्यमावश्यकं तथाचैकं कर्म द्रव्यारम्भकसं- योगविरोधिनं विभागं जनयतु यथा विकसत् कमल- कुद्मलादावपरञ्च द्रव्यारम्भकसंयोगविरोधिनमविरोधिन- ञ्चोभयमिति मैवं कार्य्यविरोधो हि कारणवैचित्र्यकल्प- नामूलं स च विरोघः एकस्य द्रव्यारम्भकसंयोगप्रतिद्वणि- त्वेन अपरस्य तु तदप्रतिद्वन्द्वित्वेनेति तथैव वैचित्र्यस्यापि कल्पनौचित्यात् तच्चेदं वशदले वर्त्तमानं कर्म दलद्वयवि- भागमात्रं जनयति स च विभागोऽग्रे आकाशादिदेशाद्वि- भागं द्रव्यारम्भकसंयोगाप्रतिद्वन्द्विनं विभागमारभते तस्य च निरपेक्षस्य विभागजनने कर्मत्वापत्तिरिति द्रव्यनाशवि- शिष्टं कालमपेक्षते । ननु तदानीमपि कर्मैव तज्जनयतु अतीतकालत्वात् विभागजनने कर्मण स्वोत्पत्त्यमन्तर एव काले नत्वेवं विभागेन जनिते विभागान्तरे कर्म प्रदेशान्तरसंयोगमपि न जनयेत्, न संयोगजननं प्रति- कर्मणोऽनतीतकालत्वात् अन्यथा कर्म न नश्येदेव तस्यो- त्तरसंयोगमात्रनाश्यत्वात् । सोऽयं विभाग उत्तरसंयोग नाश्यः क्षणत्रयस्थायी क्वचिदाश्रयनाशनाश्यः तद्- यथा तन्तोरवयवेऽंशौ कर्म तदनन्तरमंशुद्वयविभागस्तदैव तन्त्वन्तरे कर्म ततोऽंशुद्वयविभागेन न्त्वारम्भकसंयोग- नाशस्तन्तुकर्मणा च विभागस्ततो द्रव्यारम्भकसंयोगना- शात्तन्तुकर्मणो नाशस्तन्नाशाच्च तन्त्वन्तरकर्मजन्यविभाग- नाशः । नन्वेवं तन्त्वन्तरोत्पन्नस्य कर्मणो न नाशः स्या- द्विनाशकाभावात्, उत्तरसंयोगेन हि तन्नाश्येत विभागे च नष्टे नोत्तरसंयोग इति चेन्न तन्तौ यत् कर्मो- त्पन्नं तेन यथा विनश्यदवस्थतन्तोर्विभागो जनि- तस्तथा तदंशोरपि विभागो जननीयः सोऽप्यार- म्भकसंयोगविरोध्येव तेनांशुतन्तुविमागेन तन्त्वाकाश- विभागस्ते न चोत्तरसयोगस्तेन ततः कर्मनाशः । यद्वा- यत्र तन्तौ यदा कर्म तदांशावपिं तदैव कर्म तच्च कर्म- विनश्यदवस्थतन्तुतदवयवाकाशादिदेशाद्युगपदेव विभा- गानारभते सर्वेषां विभागानामारम्भकसंयोगविरोधि- त्वात् तथा च कारणसंशुरकारणञ्चाकाशादि तद्विभागात् कार्य्यस्य तन्तोरकार्य्येणाकाशादिना यो विभाग उत्पन्न- स्तदन न्तरोत्पत्तिकेन संयोगेन तन्तुसमवेतस्य कर्मणो विनाश इति । क्वचिद्द्वाभ्यां तद् यथा तन्तुवीरणयोः संयोगे सति तन्त्ववयवेऽंशौ कर्म वीरणे च कर्मेत्येकः कालः अंशुकर्मणाऽंश्वन्तरविभागस्तेन च संयोगस्य तन्त्वारम्भकस्य विनाशः वीरणकर्मणा च तन्तुवीरण- विभागस्तन्तुवीरणसंयोगनाशश्च तन्त्वारम्भकसंयोगनाशा- नन्तरं तन्तुनाशस्तन्तुवीरणसंयोगनाशानन्तरं वीरणस्य प्रदेशान्तरसंयोगस्ताभ्यामाश्रयनाशसंयोगाभ्यां विभाग- नाशः” उप० वृत्तिः । कर्मणि घञ् । ५ अंशे खण्डे च ।
शब्दकल्पद्रुमः
विभागः || पुं, (वि + भज + घञ् ।)
भागः । अस्य पर्य्यायः अंशशब्दे द्रष्टव्यः ॥ अस्य लक्षणं यथा । “एकदेशोपात्तस्यैव भूहिरण्यादावुत्पन्नस्य स्वत्वस्य विनिगमनाप्रमाणाभावेन वैशेशिक- व्यवहारानर्हतया अव्यवस्थितस्य गुटिकापाता- दिना व्यञ्जनं विभागः । विशेषेण भजनं स्वत्वज्ञापनं वा विभागः ।” इति दायभागः ॥ अपि च । “विभागोऽर्थस्य पित्र्यस्य पुत्त्रैर्यत्र प्रकल्प्यते । दायभाग इति प्रोक्तं तद्विवादपदं बुधैः ॥” इति नारदवचनम् ॥ पूर्ब्बस्वामिस्वत्वोपरमे सम्बन्धाविशेषात् सम्ब- न्धिनां सर्व्वधनप्रसूतस्य स्वत्वस्य गुटिकापाता- दिना प्रादेशिकस्वत्वव्यवस्थापनं विभागः ॥ * ॥
अपि च । कात्यायनः । “जीवद्विभागे तु पिता नैकं पुत्त्रं विशेषयेत् । निर्भाजयेत् न चैवैकमकस्मात् कारणं विना ॥” उक्तकारणशून्ये तु नारदः । “व्याधितः कुपितश्चैव विषयासक्तचेतनः । अयथाशास्त्रकारी च न विभागे पिता प्रभुः ॥” निवृत्तरजस्कायामेव मातरि पितामहधन- विभागमाह बृहस्पतिः । “पित्रोरभावे भ्रातॄणां विभागः संप्रदर्शितः । मातुर्निवृत्ते रजसि जीवतोरपि शस्यते ॥” अन्यच्च । याज्ञवल्क्यः । “विभागश्चेत् पिता कुर्य्यादिच्छया विभजेत् सुतान् । ज्येष्ठं वा श्रेष्ठभागेन सर्व्वेवा स्युः समांशिनः ॥” अपि च देवलः । “अविभक्तविभक्तानां कुल्यानां वसतां सह । भूयो दायविभागः स्यादाचतुर्थादिति स्थितिः ॥” विष्णुः । पितृविभक्ता विभागानन्तरोत्पन्नस्य विभागं दद्युरिति । “गोत्रभागविभागार्थे सन्देहे समुपस्थिते । गोत्रजैश्चापरिज्ञाते कुलं साक्षित्वमर्हति ॥” इति शङ्खवचनम् ॥ इति दायतत्त्वम् ॥ सामान्यधर्म्मावच्छिन्नानामेव बहूनां परस्पर- विरुद्धतद्व्याप्यधर्म्मप्रकारेण प्रतिपादनं हि वि- भागः । इति श्राद्धविवेकटीकायां श्रीकृष्ण- तर्कालङ्कारः ॥ * ॥
न्यायमते चतुर्व्विंशतिगुणान्त- र्गतगुणविशेषः । स त्रिविधः । यथा, —
“शब्दाहेतुर्द्वितीयः स्यात् विभागोऽपि त्रिधा भवेत् । एककर्म्मोद्भवस्त्वाद्यो द्वयकर्म्मोद्भवः परः ॥ विभागजस्तृतीयः स्यात्तृतीयोऽपि द्बिधा भवेत् । हेतुमात्रविभागोत्थहेत्वहेतुविभागजः ॥” इति भाषापरिच्छेदः ॥ * ॥
विभक्तप्रत्ययकारणं विभागं निरूपयति विभाग इति एककर्म्मेति । उदाहरणन्तु । श्येनशैल- विभागादिकं पूर्व्ववत् बोध्यं तृतीयो विभागजः कारणमात्रविभागजन्यः कारणाकारणविभाग- जन्यश्चेति आद्यस्तावत् यत्र कपालकर्म्म ततः कपालद्वयविभागस्ततो घटारम्भकसंयोगनाश- स्ततो घटनाशः ततस्तेन एककपालविभागेन सकर्म्मणः कपालस्य देशान्तरविभागो जन्यते तत उत्तरदेशसंयोगः ततः कर्म्मनाश इति । न च तेन कर्म्मणैव कथं देशान्तरविभागो न जन्यते इति वाच्यं एकस्य कर्म्मण आरम्भक- संयोगप्रतिद्बन्द्विविभागजनकत्वस्यानारम्भकसं- योगप्रतिबन्धिविभागजनकत्वविरोधात् अन्यथा विकसत्कमलकुट्मलभङ्गप्रसङ्गात् तस्माद्यदीदं अनारम्भकसंयोगप्रतिद्वन्द्बिविभागं जनयेत्तदा आरम्भकसंयोगप्रतिबन्धिविभागं न जनयेत् । न च कारणविभागेनैव द्रव्यनाशात् पूर्व्वं कुतो देशान्तरविभागो न जन्यते इति वाच्यं आर- म्भकसंयोगप्रतिबन्धिविभागवतः अवयवस्य सति द्रव्ये देशान्तरविभागासम्भवात् यत्र हस्त- क्रियया हस्ततरुविभागः ततः शरीरेऽपि विभक्तप्रत्ययो भवति तत्र च शरीरतरुविभागे हस्तक्रिया न कारणं व्यधिकरणत्वात् शरीरे तु क्रिया नास्ति अवयविकर्म्मणो यावदवयवकर्म्म- नियतत्वात् । अतस्तत्र कारणाकारणविभागेन कार्य्याकार्य्यविभागो जन्यते इति अतएव विभागो गुणान्तरं अन्यथा शरीरे विभक्ताविभक्त- प्रत्ययो न स्यात् अतः संयोगनाशेन विभागो नान्यथासिद्धो भवति । इति सिद्धान्तमुक्ता- वली ॥ (“सामान्यधर्म्मावच्छिन्नानामेव वस्तूनां परस्परविरुद्धतद्व्याप्यधर्म्मप्रकारेण प्रतिपाद- नम् ॥” यथा द्रव्यत्वधर्म्मावच्छिन्नानां क्षित्या- दीनां परस्परविरुद्धेन क्षितित्वजलत्वादिना अथ द्रव्यत्वव्याप्येन विशेषेण तथा प्रतिपादनं नवधा द्रव्यविभागः ॥ यागः । यथा, ऋग्वेदे । ५ । ७७ । ४ । “यो भूयिष्ठं नासत्याभ्यां विवेष च निष्ठं पित्त- ररते विभागे ।” “यो यजमानो विभागे हविर्व्विभागवति यागे ।” इति तद्भाष्ये सायणः ॥”)