संस्कृत-शब्दकोशः

विभावना विभावसु

विभावरी

वाचस्पत्यम्

विभावरी ||‍ स्त्री वि + भा—कनिप् ङीप् वनो र च । १ रात्रै अमरः । २ हरिद्रायां ३ कुट्टिन्याम् ४ वक्रयोषिति ५ वि- वादवस्त्रमुण्ड्यां मेदि० । ६ मुखरस्त्रियाम् शब्दर० । ७मेदा- वृक्षे च रत्नमा० ।


शब्दकल्पद्रुमः

विभावरी || स्त्री रात्रिः । इत्यमरः ॥ (यथा, राजतरङ्गिण्याम् । ३ । २०७ । “प्रभातायां विभावर्य्यां यथास्थानस्थितो नृपः । आकार्य्यतां मातृगुप्त इति क्षत्तारमादिशत् ॥” मन्दारविद्याधरकन्या । यथा, मार्कण्डेये । ६३ । १४ । “मन्दारविद्याधरजा सखी मम विभावरी ॥” सुमेरूत्तरस्था पुरी । यथा, भागवते । ७५ । २१ । ७ । “उत्तरतः सौम्यां विभावरीं नाम ॥”)
हरिद्रा । कुट्टनी । वक्रयोषित् । विवादवस्त्र- मुण्डी । इति मेदिनी । रे, २९६ ॥ मौखर्य्य- निरतस्त्री । इति शब्दरत्नावली ॥ मेदावृक्षः । इति रत्नमाला ॥



Correction: