संस्कृत-शब्दकोशः

विभावन विभावरी

विभावना

वाचस्पत्यम्

विभावना ||‍ स्त्री अर्थालङ्कारभेदे अलङ्कारशब्दे ४०४ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

विभावना || स्त्री (विभावयति कारणं विना कार्य्योत्पत्तिं चिन्तयति पण्डित- मिति । वि + भावि + ल्युः । युच् वा ।)
अल- ङ्कारविशेषः । स च विनाकारणं उपनिबद्ध- मानोऽपि कार्य्योदयरूपः । यथा, —
“विभावना विना हेतुं कार्य्योत्पत्तिर्यदुच्यते । उक्तानुक्तनिमित्तत्वात् द्बिधा सा परि- कीर्त्तिता ॥” उक्तहेतौ यथा, —
“अनायासकृशं मध्यमशङ्कतरले दृशौ । अभूषणमनोहारि वपुर्वयसि सुभ्रुवः ॥” अनुक्तहेतौ यथा, —
“स एव त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं तस्य शम्भुना न हृतं बलम् ॥” इति साहित्यदर्पणे १० परिच्छेदे ॥ (पालनम् । यथा, भागवते । ४ । ८ । २० । “यस्याङ्घिपद्मं परिचर्य्यविश्व- विभावनायात्तगुणाभिपत्तेः ॥”)



Correction: