वाचस्पत्यम्
विभु || पु० वि + भू—डु । सर्वमूर्त्तसंयुक्ते १ कालादौ २ महादेवे ३ व्रह्मणि च मेदि० । ४ भृत्ये त्रिका० । ५ विष्णौ शब्दमा० ६ व्यापके ७ नित्ये ८ अर्हद्देवे हेमच० । ९ दृढे त्रि० अजयः । १० परममहत्त्वयुते सि० मुक्ता० ।
शब्दकल्पद्रुमः
विभुः || त्रि सर्व्वमूर्त्तसंयोगी । परममहत्त्ववान् । स तु आत्मादिः । यथा, —
“आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्त्तृकम् । विभुर्बुद्ध्यादिगुणवान् बुद्धिस्तु द्बिविधा मता ॥” इति भाषापरिच्छेदः ॥ विभुरिति विभुत्वं परममहत्त्ववत्त्वम् । इति सिद्धान्तमुक्तावली ॥ “कालखात्मदिशां सर्व्वगतत्वं परमं महत् ।” इति भाषापरिच्छेदः ॥ दृढः । इत्यजयपालः ॥ व्यापकः । इति हेम- चन्द्रः ॥ (यथा, ऋग्वेदे । १० । ४० । १ । “प्रातर्यावाणं विभ्वं विशे विशे ॥” “विभ्वं विभुं व्यापिनम् ।” इति तद्भाष्ये सायणः ॥ व्याप्तः । यथा, ऋग्वेदे । १ । ३४ । १ । “त्रिश्चिन्नो अद्याभवतं न वेद सा विभुर्व्वायाम उत राति रश्विना ॥” “विभुः व्याप्तः ।” इति तद्भाष्ये सायणः ॥ सर्व्वत्र गमनशीलः । यथा, ऋग्वेदे । १ । १६५ । १० । “एकस्य चिन्मे विभ्वस्त्वोजो या नु दधृष्वान्कृणवै मनीषा ॥” “विभु सर्व्वत्र गमनशीलम् ।” इति तद्भाष्ये सायणः ॥ ईश्वरः । यथा, ऋग्वेदे । ४ । ७ । १ । “यमप्नवानो भृगवो विरुरुचुर्व्वनेषु चित्रं विभ्वं विशे विशे ॥” “विभ्वं विभुं ईश्वरम् ।” इति तद्भाष्ये सायणः ॥ महान् । यथा, ऋग्वेदे । ५ । ३८ । १ । “उरोष्ट इन्द्र राधसो विभ्वी राति शतक्रतो ॥” “विभ्वी महती ।” इति तद्भाष्ये सायणः ॥)
शब्दकल्पद्रुमः
विभुः || पुं, (वि + भू + “विप्रसंभ्यो ड्वसंज्ञायाम् ।” ३ । २ । १८० । इति डुः ।)
प्रभुः । (यथा, शिशुपालवधे । “विभुर्व्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥”)
सर्व्वगतः । शङ्करः । (यथा, महाभारते । १३ । १७ । १६ । “त्रिजटश्चिरवासाश्च रुद्रः सेनापतिर्विभुः ॥”)
ब्रह्मा । इति मेदिनी । भे, ७ ॥ भृत्यः । इति त्रिकाण्डशेषः ॥ विष्णुः । इति शब्दमाला ॥ (यथा, महाभारते । १३ । १४९ । १०७ । “विहायसगतिर्ज्ज्योतिः सुरुचिर्हुतभुग्विभुः ॥” जीवात्मा । यथा, —
“न शक्यश्चक्षुषा द्रष्टुं देहे सूक्ष्मतमो विभुः । दृश्यते क्षानचक्षुर्भिस्तपश्चक्षुर्भिरेव च ॥” इति सुश्रुते शारीरस्थाने पञ्चमेऽध्याये ॥)
नित्यः । अर्हन् । इति हेमचन्द्रः ॥