वाचस्पत्यम्
विमनस्(स्क) || त्रि० विक्षिप्तं मनो यस्य वा कप् । चिन्तादिना व्याकुलचित्ते अमरः ।
शब्दकल्पद्रुमः
विमनाः || [स्] त्रि, (विरुद्धं मनो यस्य ।)
चिन्ता- दिव्याकुलचित्तः । तत्पर्य्यायः । दुर्म्मनाः २ अन्त- र्मनाः ३ । इत्यमरः ॥ दुःखितमानसः ४ ॥ इति शब्दरत्नावली ॥ (यथा, देवीभागवते । १ । १९ । १० । “मिष्टमत्सि सदा राजन् मुदितो विमनास्तथा । मालायाञ्च तथा सर्पे समदृक् क्व नृपोत्तम ! ॥”)