वाचस्पत्यम्
विमर्द || पु० विमृद्यतेऽसौ वि + मृद—घञ् । (कालकासुन्दिया) १ वृक्षे रत्नमा० । संज्ञायां कन् । चक्रमर्दके राजनि० । भावे घञ् । ३ मर्दने ३ कुङ्कुमादिमर्दने च ।
शब्दकल्पद्रुमः
विमर्द्दः || पुं, (विमृद्यतेऽसौ इति । वि + मृद् + घञ् ।)
कालङ्कतवृक्षः । इति रत्नमाला ॥ कालकासुन्दिया इति भाषा ॥ विमर्द्दनम् । इति शब्दरत्नावली ॥ (यथा, रघुः । ५ । ६५ । “तं कर्णभूषणनिपीडितपीवरांसं- शय्योत्तरच्छदविमर्द्दकृशाङ्गरागम् ॥” सम्पर्कः । यथा, रघुः । १३ । २० । “असौ महेन्द्रद्विपदानगन्धि- स्त्रिमार्गगावीचिविमर्द्दशीतः ॥” “त्रिमार्गगा गङ्गा तस्या वीचीनां विमर्द्देन सम्पर्केण शीतः ।” इति तट्टीकायां मल्लि- नाथः ॥ * ॥
युद्धम् । यथा, रामायणे । ३ । ३२ । ७ । “देवासुरविमर्द्देषु वज्राशनिकृतव्रणम् ॥” कलहः । यथा, तत्रैव । ७ । ६३ । २४ । “कार्य्यार्थिनां विमर्द्दो हि राज्ञां दोषाय कल्पते ॥”)