वाचस्पत्यम्
विमल || त्रि० विगतो मलो यस्मात् । १ स्वच्छे निर्मले अमरः । विगतो मलो यस्याः ५ ब० । (चामकषा) २ सप्तलायाम् अमरः । जगन्नाथक्षेत्रस्थे ३ देवीभेदे स्त्री तन्त्रसा० । ४ दुर्गामूर्त्तिभेदे देवीपु० । ५ उपरसभेदे न० राजनि० । ६ जि?न}देवे पु० ७ चारुणि त्रि० शब्दर० । “चेतसा सत्त्व- युक्तेन दानं यद् विमलं स्मृतम्” गरुडपु० उक्ते ८ सा- त्त्टिके दानभेदे न० ।
शब्दकल्पद्रुमः
विमलं || क्ली (विगतो मलो यस्मात् ।)
तारहेम- द्विधाकृतम् । तत्तूपरसविशेषः । तत्पर्य्यायः । निर्म्मलम् २ स्वच्छम् ३ अमलम् ४ स्वच्छधातु- कम् ५ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । त्वग्दोषव्रणनाशित्वम् । रसवीर्य्यादौ तुल्य- त्वम् । वेधे भिन्नवीर्य्यकत्वञ्च । इति राज- निर्घण्टः ॥ (तथास्य शोधनमारणविधिः । “मूत्रारनालतैलेषु गोदुग्धे कदली रसे । कौलत्थे कोद्रवक्वाथे माक्षिकं विमलन्तथा ॥ मुहुः शूरणकन्दस्थं स्वेदयेद्वरवर्णिनि ! । क्षाराम्ललवणैश्चैव तैलसर्पिःसमन्वितम् ॥ पुटत्रयं प्रदातव्यं ततस्तु शोधितं भवेत् । जम्बीरस्य रसे स्विन्नो मेषशृङ्गीरसैस्तथा । रम्भातोयेन वा पाच्यं घस्रं विमलशुद्धये ॥” इति विमलशुद्धिः ॥ इति वैद्यकरसेन्द्रसार- संग्रहे जारणमारणाधिकारे ॥)
शब्दकल्पद्रुमः
विमलं || त्रि (विगतो मलो यस्मात् ।)
निर्म्मलम् । तत्पर्य्यायः । वीध्रम् २ । इत्यमरः ॥ प्रयतम् ३ । इति शब्दरत्नावली ॥ (यथा, रामायणे । २ । ४८ । १४ । “प्रस्रविष्यन्ति तोयानि विमलानि महीधराः । विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झ- रान् ॥”)
चारुः । इति च शब्दरत्नावली ॥ (यथा, माघे । ९ । १३ । “रुचिधाम्नि भत्तरि भृशं विमलाः परलोकमभ्युपगते विविशुः ॥”)
शब्दकल्पद्रुमः
विमलः || पुं, (विगतो मलः पापं यस्मात् ।)
अर्हन् । इति हेमचन्द्रः ॥ (सुद्युम्नपुत्त्रः । यथा, भाग- वते । ९ । १ । ४१ । “तस्योत्कलो गयो राजन् विमलश्च त्रयःसुताः ॥”)