शब्दकल्पद्रुमः
विमलदानं || क्ली (विमलं विशुद्धं दानम् ।)
नित्य- नैमित्तिककाम्यदानम् । ईश्वरप्रीणनार्थदानञ्च । यथा, —
“नित्यं नैमित्तिकं काम्यं विमलं दानमीरितम् । अहन्यहनि यत्किञ्चिद्दीयतेऽनुपकारिणे । अनुद्दिश्य फलं तत् स्यात् ब्राह्मणाय तु नित्य- कम् ॥ यत्तु पापापशान्त्यै च दीयते विदुषां करे । नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् ॥ अपत्यविजयैश्वर्य्यस्वर्गार्थं यत् प्रदीयते । दानं तत् काम्यमाख्यातमृषिभिर्द्धर्म्मचिन्तकः ॥ चेतसा सत्त्वयुक्तेन दानं तद्बिमलं स्मृतम् ॥” इति गारुडे ५१ अध्यायः ॥