वाचस्पत्यम्
विमार्ग || पु० विरुद्धो मार्गः । १ कुपथे २ निन्दिताचारे च ।
शब्दकल्पद्रुमः
विमार्गः || पुं, विपूर्ब्बमृजधातोर्घञ्प्रत्ययेन निष्पन्नः ॥ सम्मार्ज्जनी । (विरुद्धो मार्गः ।)
कुपथः । (यथा, शाकुन्तले ५ अङ्के । “नियमयसि विमार्गप्रस्थितानात्तदण्डः प्रशमयसि विवादं कल्पसे रक्षणाय ॥”)