वाचस्पत्यम्
विम्ब || पुंन० । वी + बन मुमह्रस्वौ । १ दर्पणादौ भासमान- प्रतिविम्बाश्रये २ कमण्डलौ च संक्षिप्तसा० । ३ सूर्य्यादि- मण्डले अमरः । ४ कृकलासे पुंस्त्री० मेदि० स्त्रियां ङीष् । विम्बायाः फलम् अण् तस्य लुप् । ५ विम्बिकाफले न० ।
शब्दकल्पद्रुमः
वि(बि)म्बं || क्ली (वी गत्यादिषु + “उल्वादयश्च ।” उणा० ४ । ९५ । इति वन् प्रत्ययेन निपातनात् साधुः ।)
प्रतिविम्बम् । कमण्डलुः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (मूर्त्तिः । यथा, भागवते । ३ । २ । ११ । “प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् । आदायान्तर्दधात् यस्तु स्वविम्बं लोकलोचनम् ॥” तथाच राजतरङ्गिण्याम् । ३ । ४६६ । “मेघवाहनभूभर्त्तृपत्न्या भिन्नाख्यया कृते । विहारेऽपि तया बुद्धविम्बं साधु निवेशितम् ॥”)
विम्बिकाफलम् । तेलाकुचा इति भाषा । इति मेदिनी । वे, ७ ॥ (यथा, कुमारे । ३ । ६७ । “उमामुखे विम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥”)
अस्य पर्य्यायः । तुण्डिकेरी २ रक्तफला ३ बिम्बिका ४ पीलुपर्णी ५ । इत्यमरः ॥ ओष्ठी ६ बिम्बी ७ । इति रत्नमाला ॥ बिम्बा ८ बिम्ब- कम् ९ बिम्बजा १० । इति शब्दरत्नावली ॥ अस्य गुणाः । पित्तकफच्छर्द्दिव्रणहृल्लासकुष्ठ- नाशित्वम् । इति राजवल्लभः ॥ अपि च । “बिम्बी रक्तफला तुम्बी तुण्डिकेरी च बिम्बिका । ओष्ठोपमफला प्रोक्ता पीलुपर्णी च कथ्यते ॥ बिम्बीफलं स्वादु शीतं गुरु पित्तास्रवातजित् । स्तम्भनं लेखनं रुच्यं विबन्धाध्मानकारकम् ॥” इति भावप्रकाशः ॥
शब्दकल्पद्रुमः
वि(बि)म्बः || पुं क्ली, (वी + “उल्वादयश्च ।” उणा० ४ । ९५ । इति वन्प्रत्ययेन साधुः ।)
सूर्य्य- चन्द्रमण्डलम् । इत्यमरः ॥ (यथा, प्रबोध- चन्द्रोदये ६ अङ्के । “असौ त्वदन्यो न सनातनः पुमान् भवान् न देवात् पुरुषोत्तमात् परः । स एव भिन्नस्त्वमनादिमायया द्बिधेव विम्बं सलिले विवस्वतः ॥” यथाच मार्कण्डेये । ८४ । ११ । “ईषत्सहासममलं परिपूर्णचन्द्र- विम्बानुकारि कनकोत्तमकान्तिकान्तम् ॥” मण्डलमात्रेऽपि । यथा, ऋतुसंहारे । १ । ४ । “नितम्बविम्बैः सुदुकूलमेखलैः स्तनैः सहाराभरणैः सचन्दनैः । शिरोरुहैः स्नानकषायवासितैः स्त्रियो निदाघं शमयन्ति कामिनाम् ॥” यथाच कुमारे । ७ । २२ । “आत्मानमालोक्य च शोभमान- मादर्शविम्बे स्तिमितायताक्षी । हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेशः ॥”)
शब्दकल्पद्रुमः
वि(बि)म्बः || पुं, (वी + वन्प्रत्ययेन साधुः ।)
कृक- लासः । इति मेदिनी । वे, ७ ॥