वाचस्पत्यम्
विम्बा(म्बी) || स्त्री विम्बमस्त्यस्याः अच् वा गौरा० ङीष् । (तेलाकुचा) १ लताभेदे शब्दर० “विम्बीफलं भ्वादु शातं गुरु पित्तास्रवातजित् । स्तम्भनं लेखनं रुच्य विबन्धा- ध्मानकारकम्” भावप्र० । स्वार्थे क कापि अत इत्त्वम तत्रार्थे । सूर्य्यदिमण्डले पु० न० नात इत्त्वम् ।
शब्दकल्पद्रुमः
वि(बि)म्बा || स्त्री (विम्वं फलमस्त्यस्यामिति । विम्ब + अच् । टाप् ।)
विम्बिका । इति शब्द- रत्नावली ॥