वाचस्पत्यम्
वियन्मणि || पु० वियतो मणिरिव प्रकाशकत्वात् भूषकत्वाद्वा द्युमणौ सूर्य्ये हारा० ।
शब्दकल्पद्रुमः
वियन्मणिः || पुं, (वियतो मणिः ।) सूर्य्यः । इति हारावली ॥