वाचस्पत्यम्
विरजा || स्त्री विशेषेण रज्यतेऽत्र रन्ज—घञर्थे क । १ दूर्वायां हारा० गोलोकस्थे २ राधासखीभेदे तच्छापाज्जायमाने ३ नदीभेदे च ब्रह्मवै० ज० ख० ३५ अ० । ४ कपित्था- नीवृक्षे रत्नमा० । ५ ययातिमातरि कूर्मपु० २० अ० । सा च नदी उत्कलदेशस्था जगन्नाथसन्निकृष्टा “उतकले नाभिदेशश्च विरजाक्षेत्र उचाते । विमलाऽत्र महादेवी जगन्नाथस्तु भैरवः” पीतनिर्णयः । तत्र मुण्डनोपवासौ न कार्य्यौ “मुण्डनं चोपवासंश्च सर्वतीर्थेष्वयं विधिः । वर्जयित्वा गयां गङ्गां विशार्ला विरजां तथा” प्रा० त० ।
शब्दकल्पद्रुमः
विरजा || स्त्री कपित्थानीवृक्षः । इति रत्नमाला ॥ दूर्व्वा । इति हारावली ॥ ययातिमाता । यथा, उत्पन्नाः पितृकन्यायां विरजायां महाबलाः । यतिर्ययातिः स्वर्यातिरायातिः पञ्चमो लुकः । तेषां ययातिः पञ्चानां महाबलपराक्रमाः ॥ इति कौर्म्मे २० अध्यायः ॥ श्रीकृष्णसखी । सा राधाभयात्त्यक्तप्राणा सती सरिद्रूपाभवत् । तस्याः सप्त पुत्त्राः तप्त समुद्रा अभवन् । यथा, —
“एकदा राधिकासार्द्धं गोलोके श्रीहरिः स्वयम् । विजहार महारण्ये निर्ज्जने रासमण्डले ॥ कृत्वा विहारं श्रीकृष्णस्तामदृष्ट्वा विहाय च । गोपिकां विरजामन्यां शृङ्गारार्थं जगाम ह ॥ दृष्ट्वा च श्रीहरिस्तूर्णं विजहार तया सह । तयासक्तं श्रीहरिञ्च रत्नमण्डपसंस्थितम् ॥ दृष्ट्वा च राधिकान्याश्च चक्रुस्ताञ्च निवेदनम् । जगाम सहसा देवी तं रत्नमण्डपं मुने ॥ द्वारे नियुक्तं ददर्श द्वारपालं मनोहरम् । तमुवाच रुषा देवी रक्तपङ्कजलोचना ॥ दूरं गच्छ गच्छ दूरं रतिलम्पटकिङ्कर ! । कीदृशीं मत्परां कान्तां द्रक्ष्यामि तत्प्रभो- रहम् ॥ श्रुत्वा कोलाहलं शब्दं गोपिकानां हरिः स्वयम् । ज्ञात्वा च कोपितां राधामन्तर्धानं चकार ह ॥ विरजा राधिकाशब्दात् अन्तर्धानं हरेरपि । दृष्ट्वा राधाभयार्त्ता सा जहौ प्राणांश्च योगतः ॥ सद्यस्तत्र सरिद्रूपं तच्छरीरं बभूव ह ॥ व्याप्तञ्च वर्त्तुलाकारं तया गोलोकमेव च । कोटियोजनविस्तीर्णं प्रस्थेऽतिनिम्नमेव च ॥ दैर्घे दशगुणं चारु नानारत्नाकरं परम् । राधा रतिगृहं गत्वा न ददर्श हरिं मुने ॥ विरजाञ्च सरिद्रूपां दृष्ट्वा गेहं जगाम सा । श्रीकृष्णो विरजां दृष्ट्वा सरिद्रूपां प्रियां सतीम् ॥ उच्चै रुरोद विरजातीरे नीरमनोहरे । त्वया विनाहं सुभगे कथं जीवामि सुन्दरि ! ॥ नद्यधिष्ठातृदेवी त्वं भव मूर्त्तिमती सति । पुरातनं शरीरं ते सरिद्रूपमभूत् सति ॥ जलादुत्थाय चागच्छ विधाय नूतनां तनूम् । आजगाम हरेरग्रं साक्षाद्राधेव सुन्दरी ॥ पश्यन्तं प्राणनाथञ्च पश्यन्ती वक्रचक्षुषा । ताञ्च रूपवतीं दृष्ट्वा प्रेम्णोद्रेकां जगत्पतिः ॥ चकारालिङ्गनं तूर्णं चुचुम्ब च मुहुर्मुहुः । नानाप्रकारशृङ्गारविपरीतादिकं प्रभुः ॥ रहसि प्रेयसीं प्राप्य चकार च पुनः पुनः । विरजा सा रजोयुक्ता धृत्वा वीर्य्यममोघकम् ॥ सद्यो बभूव तत्रैव धन्या गर्भवती सती । तस्थौ तत्र सुखासीना सार्द्धं पुत्त्रैश्च सप्तभिः ॥ एकदा हरिणा सार्द्धं वृन्दारण्ये सुनिर्ज्जने । विजहार पुनः साध्वी शृङ्गारासक्तमानसा ॥ एतस्मिन्नन्तरे तत्र मातुः क्रोडं जगाम ह । कनिष्ठपुत्त्रस्तस्याश्च भ्रातृभिः पीडितो भिया ॥ भीतं स्वतनयं दृष्ट्वा तत्याज तां कृपानिधिः । क्रोडे चकार बालं सा कृष्णो राधागृहं ययौ ॥ प्रबोध्य बालं सा साध्वी न ददर्शान्तिकं प्रियम् । विललाप भृशं तत्र शृङ्गारातृप्तमानसा ॥ शशाप स्वसुतं कोपात् लवणोदो भविष्यसि । शशाप सर्व्वान् बालांश्च यान्तु मूढा रसातलम् ॥ श्रुत्वा विवरणं सर्व्वे प्रजग्मुर्धरणीतलम् । सप्तद्वीपे समुद्राश्च सप्त तस्थुर्व्विभागशः ॥ कनिष्ठाद्वृद्धपर्य्यन्तं द्विगुणं द्विगुणं मुने । लवणेक्षुसुरासर्पिर्दधिदुग्धजलार्णवाः । एतेषाञ्च जलं पृथ्व्यां शस्यार्थञ्च भविष्यति ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २ । ३ अध्यायौ ॥ जगन्नाथक्षेत्रम् । यथा, —
“उत्कले नाभिदेशञ्च विरजाक्षेत्रमुच्यते । विमला सा महादेवी जगन्नाथस्तु भैरवः ॥” इति तन्त्रचूडामणौ ५१ पीठनिर्णयः ॥ * ॥
तत्र मुण्डनोपवासौ न कर्त्तव्यौ । यथा । स्कान्दे । “मुण्डनञ्चोपवासश्च सर्व्वतीर्थेष्वयं विधिः । वर्जयित्वा गयां गङ्गां विशालां विरजां तथा ॥” इति प्रायश्चित्ततत्त्वम् ॥