वाचस्पत्यम्
विरलद्रवा || स्त्री ६ ब० । श्लक्ष्णायां यवाग्वां जटा० ।
शब्दकल्पद्रुमः
विरलद्रवा || स्त्री (विरलो निर्म्मलो द्रवो यस्याः ।)
श्लक्ष्णयवागूः । यथा, —
“यवागूरुष्णिका श्राणा सेव तु द्रुतसिक्थिका । विलेपी तरला च स्यात् सा श्लक्ष्णा विरलद्रवा ॥” इति जटाधरः ॥