वाचस्पत्यम्
विरहोत्पण्ठिता || स्त्री “आगन्तु कृतचित्तोऽपि दैवान्नायाति यत्प्रियः । तदनागमदुःखार्त्ता विरहोन्कण्ठिता तु सा” सा० द० ३ प० लक्षिते नायिकाभेदे ।