संस्कृत-शब्दकोशः

विरिक्त विरिञ्चन

विरिञ्च

वाचस्पत्यम्

विरिञ्च ||‍ पु० बि + रिच—अच् मुम् च । १ विष्णौ २ जगत्म्रष्टरि येधसि, ३ शिवे च शब्दर० । इन् विरिञ्चि तत्रैवार्थे अमरः ।


शब्दकल्पद्रुमः

विरिञ्चः || पुं, ब्रह्मा । (यथा, भागवते । ८ । ५ । ३९ । “बलान्महेन्द्रस्त्रिदशाः प्रसादा- न्मन्योर्गिरीशो धिषणाद्विरिञ्चः ॥”)
विष्णुः । शिवः । इति शब्दरत्नावली ॥



Correction: