विलग्न
विलपन
विलज्ज
शब्दकल्पद्रुमः
विलज्जः || त्रि (विगता लज्जा यस्य ।)
लज्जा- रहितः । निर्लज्जः । यथा, —
“तनयगतदिनेशे शैशवे सौख्यभागी न भवति फलभागी यौवने व्याधियुक्तः । जनयति सुतमेकं निर्णयं नाशयित्वा चपलमतिविलज्जः क्रूरकर्म्मा कुचेलः ॥” इति ज्योतिषे पञ्चमस्थानस्थरविफलम् ॥