वाचस्पत्यम्
विलम्ब || पु० वि + लवि घञ् । विलम्बने अशीघ्रत्वे प्रतीक्षणीय काले २ प्रभवादिषु “तस्करैः पार्थिवैश्चैव अभिभूतमिदं जगत् । अर्घो भवति सामान्यो विलम्बे तु भयं महत्” ज्यो० त० उक्तलक्षणे वर्षभेदे ।
शब्दकल्पद्रुमः
विलम्बः || पुं, (वि + लम्ब + घञ् ।)
लम्बनम् । गौणः । यथा, देवीपुराणे । “अकालेऽप्यथवा काले तीर्थश्राद्धं तथा नरैः । प्राप्तैरेव सदा कार्य्यं कर्त्तव्यं पितृतर्पणम् ॥ पिण्डदानं तत्र शस्तं पितॄ णाञ्चातिदुर्ल्लभम् । विलम्बो नैव कर्त्तव्यो न च विघ्नं समाचरेत् ॥” इति प्रायश्चित्ततत्त्वम् ॥ प्रभवादिषष्टिसंवत्सरान्तर्गतद्वात्रिंशबर्षम् । यथा, भविष्ये । “तस्करैः पार्थिवैश्चैव अभिभूतमिदं जगत् । अर्घो भवति सामान्यो विलम्बे तु भयं महत् ॥” इति ज्योतिस्तत्त्वम् ॥