शब्दकल्पद्रुमः
विलम्बनं || क्ली (वि + लम्ब + ल्युट् ।) अशीघ्रम् । इति विलम्बितशब्दटीकायां भरतः ॥ (यथा, हरिवंशे भविष्यपर्व्वणि । ४१ । २२ । “आगच्छ त्वरितं कृष्ण न ते कार्य्यं विलम्बनम् ॥”)