संस्कृत-शब्दकोशः

विलम्बित विलम्भ

विलम्बिन्

शब्दकल्पद्रुमः

विलम्बी || [न्] त्रि, विलम्बविशिष्टः । इति विलम्ब- शब्दादिन्प्रत्ययेन निष्पन्नः ॥ (यथा, गीत- गोविन्दे । ६ । ८ । “भवति विलम्बिनि विगलितलज्जा विलपति रोदिति वासकसज्जा ॥” विशेषेण लम्बते इति । वि + लम्ब + णिनिः । लम्बमानः । यथा, किराते । ५ । ६ । “उदितपक्षमिवारतनिःस्वनैः पृथुनितम्बविलम्बिभिरम्बुदैः ॥” पुं, क्ली । वत्सरविशेषः । यथा, बृहत्संहिता- याम् । ८ । ३९ । “हेमलम्ब इति सप्तमे युगे स्याद्विलम्बि परतो विकारि च । शर्व्वरीति तदनु प्लवः स्मृतो वत्सरो गुरुवशेन पञ्चमः ॥”)



Correction: