शब्दकल्पद्रुमः
वि(बि)लशयः || पुं, (विले शेते इति । शी + अच् ।) सर्पः । इति शब्दरत्नावली ॥ (विलवासिनि, त्रि । यथा, महाभारते । १४ । ९० । ६ । “सकृदुत्सृज्य तं नादं त्रासयानो मृगद्बिजान् । मानुषं वचनं प्राह धृष्टो विलशयो महान् ॥”)