वाचस्पत्यम्
विलाप || पु० वि + लप—घञ् । परिदेवनोक्तौ अमरः ।
शब्दकल्पद्रुमः
विलापः || पुं, (वि + लप + घञ् ।)
अनुशोच- नोक्तिः । तत्पर्य्यायः । परिदेवनम् २ । इत्यमरः ॥ अपि च । “क्रन्दनादौ विलापः स्यात् परिदेवनमित्यपि ।” इति शब्दरत्नावली ॥ विलापो दुःखजं वचः । इत्युज्ज्वलनीलमणिः ॥ (यथा, गीतगोविन्दे । १ । २९ । “उन्मादमदनमनोरथपथिक- बधूजनजनितविलापे । अलिकुलसङ्कुलकुसुमसमूह- निराकुलवकुलकलापे ॥”)