संस्कृत-शब्दकोशः

विलेपिन् विलेप्य

विलेपी

शब्दकल्पद्रुमः

विलेपी || स्त्री (विलिप्यतेऽसाविति । वि + लिप + कर्म्मणि घञ् । स्त्रियां ङीष् ।)
यवागूः । इत्य- मरः ॥ “अन्नं पञ्चगुणे साध्यं विलेपी च चतुर्गुणे । मण्डश्चतुर्द्दशगुणे यवागूः षड्गुणेऽम्भसि ॥” इति वैद्यकोक्तो भेद इह नादृतः । इति तट्टी- कायां भरतः ॥ अस्य गुणाः । “विलेपी तर्पणी लघ्वी ग्राहिणी क्षुत्तृषा- पहा ॥” इति राजवल्लभः ॥



Correction: