शब्दकल्पद्रुमः
वि(बि)लेशयः || पुं, (विले शेते इति । विले + शी + “अधिकरणे शेतेः ।” ३ । २ । १५ । इत्यच् । शय- वासेत्यलुक् ।)
सर्पः । इत्यमरः ॥ मूषिकः । इति जटाधरः ॥ गोधा । शशः । शल्लकी । यथा, —
“गोधाशशभुजङ्गाखुशल्लक्याव्या विलेशयाः । विलेशया वातहरा मधुरा रसपाकयोः । बृंहणा वद्धविण्मूत्रा वीर्य्योष्णा अपि कीर्त्तिताः ॥” इति भावप्रकाशः ॥ (गर्त्तशायिनि, त्रि । यथा, महाभारते । १ । ४५ । ४ । “स ददर्श पितॄन् गर्त्ते लम्बमानानधोमुखान् । एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् । तं तन्तुञ्च शनैराखुमाददानं विलेशयम् ॥”)