संस्कृत-शब्दकोशः

विलोकित विलोटक

विलोचन

वाचस्पत्यम्

विलोचन ||‍ न० वि + लुच—करणे ल्युट् । १ नेत्रे जटा० । भावे ल्युट् । २ दर्शने ।


शब्दकल्पद्रुमः

विलोचनं || क्ली (विलोच्यते दृश्यतेऽनेनेति । वि + लोचि + ल्युट् ।)
चक्षुः । इति जटाधरः ॥ (यथा, कुमारे । ३ । ६७ । “उमामुखे विम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥”)
दर्शनञ्च ॥ (विरुद्धे लोचने यस्येति । विकृतनयने, त्रि । यथा, देवीभागवते । ५ । ३१ । ४३ । “यदि ते सङ्गरेच्छास्ति कुरूपा भव भामिनि । लम्बोष्ठी कुनखी क्रूरा ध्वाङ्क्षवर्णा विलोचना ॥”)



Correction: