शब्दकल्पद्रुमः
विलोडनं || क्ली (वि + लुड + ल्युट् ।) मन्थनम् । आलोडनम् । यथा, — “राधिका दधिविलोढनस्थिता कृष्णवेणुनिनदैरथोद्धता । यामुनं तटनिकुञ्जमञ्जसा सा जगाम सलिलाहृतिच्छलात् ॥” इति छन्दोमञ्जरी ॥