शब्दकल्पद्रुमः
वि(बि)ल्लसूः || स्त्री प्रसूतदशपुत्त्रा । यथा, — “सप्तपुत्त्रप्रसूतायां सप्तसूः सुतवस्करा । विल्लसूर्द्दशपुत्त्रा स्यादेकाधिका तु रुद्रसूः ॥” इति शब्दरत्नावली ॥