शब्दकल्पद्रुमः
वि(बि)ल्वं || क्ली विल्ववृक्षस्य फलम् । इति मेदिनी ॥ (यथा, —
“खलः सर्षपमात्राणि परच्छिद्राणि पश्यति । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥” इत्युद्भटः ॥)
पलपरिमाणम् । इति शब्दमाला ॥ (यथा, सुश्रुते । ६ । १८ । “अत ऊर्द्ध्वं प्रवक्ष्यामि पुटपाकप्रसाधनम् । द्वौ विल्वमात्रौ श्लक्ष्णस्य पिण्डौ मांसस्य पेषितौ । द्रव्याणां विल्वमात्रन्तु द्रवाणां कुडवो मतः ॥”)
शब्दकल्पद्रुमः
वि(बि)ल्वः || पुं, (विल भेदने + उल्वादयश्चेति साधुः ।)
फलवृक्षविशेषः । वेल्गाछ इति भाषा ॥ तत्पर्य्यायः । शाण्डिल्यः २ शैलूषः ३ मालूरः ४ श्रीफलः ५ । इत्यमरः ॥ महाकपित्थः ६ गोह- रीतकी ७ पूतिवातः ८ अतिमङ्गल्यः ९ महाफलः १० । इति रत्नमाला ॥ शल्यः ११ हृद्यगन्धः १२ शालाटुः १३ कर्क्कटाह्वः १४ शैलपत्रः १५ शिवेष्टः १६ पत्रश्रेष्ठः १७ त्रिपत्रः १८ गन्धपत्रः १९ लक्ष्मीफलः २० गन्ध- फलः २१ दुरारुहः २२ त्रिशाखपत्रः २३ त्रिशिखः २४ शिवद्रुमः २५ सदाफलः २६ सत्यफलः २७ सुभूतिकः २८ समीरसारः २९ । अस्य फलगुणाः । मधुरत्वम् । हृद्यत्वम् । कषायत्वम् । गुरुत्वम् । पित्तकफज्वरातिसार- नाशित्वम् । रुचिकारित्वम् । दीपनत्वञ्च । अस्य मूलगुणाः । त्रिदोषघ्नत्वम् । मधुरत्वम् । लघुत्वम् । वान्तिनाशित्वञ्च ॥ अस्य कोमलफल- गुणाः । स्निग्धत्वम् । गुरुत्वम् । संग्राहित्वम् । दीपनत्वञ्च ॥ अस्य पक्वफलगुणाः । मधुरत्वम् । गुरुत्वम् । कटुत्वम् । तिक्तत्वम् । कषायत्वम् । उष्णत्वम् । संग्राहित्वम् । त्रिदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥
अपि च । “श्रीफलस्तुवरस्तिक्तो ग्राही रूक्षोऽग्निपित्तकृत् । बालः श्लेष्महरो बल्यो लघुरुष्णश्च पाचनः ॥” इति भावप्रकाशः ॥ * ॥
किञ्च । “विल्वं बालं कषायोष्णं पाचनं वह्निदीपनम् । संग्राहि तिक्तकटुकं तीक्ष्णं वातकफापहम् । पक्वं सुगन्धि मधुरं दुर्ज्जरं ग्राहि दोषलम् ॥ फलेषु परिपक्वेषु यो गुणः समुदाहृतः । विल्वादन्यत्र स ज्ञेयो विल्वमामं गुणोत्तरम् ॥ कफवातामपित्तघ्नी ग्राहिणी विल्वपेषिका ॥” इति राजवल्लभः ॥ अन्यच्च । “काञ्जिके संस्थितं विल्वमग्निसन्दीपनं परम् ॥” इति वैद्यकम् ॥ * ॥
विल्वोत्पत्त्यादिर्यथा, —
“विल्वादिपालनं कुर्य्यात् शुभं भयदमन्यथा । श्रीवृक्षान् रोपयेत् पञ्च यदि स्वर्गान्न हीयते ॥ भृगो लक्ष्मीश्च या धेनुर्गोरूपा सा गता महीम् । तद्गोमयभवो विल्वः श्रीश्च तस्मादजायत ॥ निराकृतिं पतिं दृष्ट्वा क्रोधेन महता ततः । शप्ता सा उमया देवी सर्व्वभोग्या भवाधमे ॥ ततः संप्रणता भाना मामैवं भवतु प्रिये । प्रियत्वं सर्व्वलोकेशि सुरासुरनमस्कृता ॥ माता त्वं सर्व्वलोकानामबलानां विशेषतः । एवमात्मवशां कृत्वा शापमोक्षमयाचत ॥ वरं ददौ च सा कामं शापमोक्षप्रदं नृप । क्षीराब्धौ त्वं भृगाङ्केन सह गोभिर्धनेन च ॥ वसस्व मथने यावत् ततो विष्णुमवाप्स्यसि । पतिं त्वं सर्व्वलोकानां पूज्यं श्रेष्ठं महाबलम् ॥ तस्य वक्षःस्थिता भद्रे दुष्टा त्वं विचरिष्यसि । लोकभोग्या च भूतित्वादन्त्यजेषु नृपेषु च ॥ न जातिरूपशौर्य्यादि न वेश्म न शुभा मतिः । भविष्यति यदा चेह चञ्चला जलबिन्दुवत् ॥ विल्ववृक्षः प्रियः शम्भोस्तव योनिर्भविष्यति । सर्व्वपुष्पोत्तमश्रेष्ठो देवाहारो मनोरमः ॥ * ॥
अच्छेद्यः सर्व्वलोकानां छेदान्नाशः सदा नृणाम् । ये च पापा दुराचाराः श्रीतरोश्छेदकारिणः । ते त्ववीच्यादिनरके पात्यन्ते ब्रह्मणो दिनम् ॥ सुदुःखिता भविष्यन्ति नरा दुष्कुलिनः सदा । तत्र देशे भयं नित्यं चिरं राजा न जीवति । न च द्रव्यपतिः कश्चिद्विल्ववृक्षस्य छेदकः ॥ क्रियते यत्र विच्छेदः सपुष्पफलिनस्तरोः । अनावृष्टिभयं घोरं तस्मिन् देशे प्रजायते ॥” इति वह्निपुराणे वामनप्रादुर्भावनामाध्यायः ॥ * मतान्तरे तस्योत्पत्तिर्यथा, — शिव उवाच । “मातः समुद्रतनये मा मा च्छिन्धि स्तनं परम् । यस्ते च्छिन्नस्तनो वामो जायतां पुनरेव सः । ज्ञाता ते परमा भक्तिः पूर्णस्तेन मनोरथः ॥ यश्च च्छिन्नस्तनो दत्तो मल्लिङ्गोपरि ते शुभे । सोऽस्तु वृक्षः क्षितौ पुण्यो नाम्ना श्रीफल इत्युत ॥ मूर्त्तिमांस्तव वै भक्तिर्वृक्षः श्रीफलनामकः । त्वत्कीर्त्तये क्षितावास्तां यावच्चन्द्रदिवाकरौ ॥ स तरुर्म्मम वै लक्ष्मि परमः सुप्रियो भवेत् । तत्पत्रेणैव मे पूजा भविष्यति न चान्यथा ॥ स्वर्णमुक्ताप्रबालादि पुष्पाण्यन्यानि च ध्रुवम् । श्रीफल च्छदलेशस्य कलां नार्हन्ति कोटिकाम् ॥ यथा मे श्रीफलतरुर्यथा गङ्गाजलं मम । तथा प्रियतमं लक्ष्मि त्रिपत्रः श्रीफलच्छदः ॥ इत्युक्तः स तथेत्युक्त्वा महेशोऽन्तर्द्दधे सखि । कपालमोचनक्षेत्रे वृक्षः श्रीफलकोर्ज्जितः ॥” इति बृहद्धर्म्मपुराणे १० अध्यायः ॥ * ॥
तस्य गोमयोद्भवत्वं यथा, —
“यज्ञानां चेह संभूत्यै यथा हरिहरस्य च । गोमयो रोचना क्षीरं मूत्रं दधि घृतं गवाम् ॥ षडङ्गानि पवित्राणि तथा सिद्धिकराणि च । उत्थितो विल्ववृक्षस्तु गोमयान्मुनिसत्तम । तत्रासौ वसते लक्ष्मीः श्रीवृक्षस्तेन चोच्यते ॥” इति वह्निपुराणे वैष्णवधर्म्मे शुद्धिव्रतनामा- ध्यायः ॥ * ॥
देव्युवाच । “वैशाखशुक्लपक्षस्य तृतीयायां सखि त्वयम् । जातो वै श्रीफलतरुर्म्माहात्म्यं तस्य कथ्यते ॥ जाते तु श्रीफलतरौ देवाः सर्व्वे सवासवाः । ब्रह्मा नारायणश्चापि देवपत्न्यः समागताः ॥ ददृशुः स्निग्धविटपं त्रिपत्रैर्मृदुलैर्युतम् । दीप्यमानं तेजसैव शिवरूपं शिवप्रदम् ॥ प्रणेमुः सिषिचुस्तत्र वासञ्चक्रुः सुखान्विताः । तद्रक्षणाय भगवानुवाच विष्णुरव्ययः ॥ विष्णुरुवाच । अयं नाम्ना विल्व इति मालूरः श्रीफलस्तथा । शाण्डिल्यश्चाथ शैलूषः शिवः पुण्यः शिवप्रियः ॥ देवावासस्तीर्थपदः पापघ्नः कोमलच्छदः । जयो विजयनामा च विष्णुस्त्रिनयनो वरः ॥ धूम्राक्षः शुक्लवर्णश्च संयमी श्राद्धदेवकः । इत्येकविंशतिं नाम्नां दधात्वेष तरूत्तमः ॥ * ॥
धनुःशतञ्चास्य मूलात् खञ्चाग्रात्तीर्थमुव्यते । अधो भूमेस्तथा तीर्थमतस्तीर्थत्रयं सखि ॥ ऊर्द्ध्वपत्रं हरो ज्ञेयः पत्रं वामं विधिः स्वयम् । अहं दक्षिणपत्रञ्च त्रिपत्रदलमित्युत ॥ अस्य च्छायाञ्च पत्रञ्च लङ्घयेन्न पदा स्पृशेत् । हरते लङ्घनादायुः पदा स्पर्शात् श्रियं हरेत् ॥ पद्मपुष्पसहस्रस्य फलपत्रसमापि च । दर्शने प्रणतौ स्पर्शे स्थानसम्मार्ज्जने तथा । पूजने चयने दाने क्रमान्मन्त्रानुदीरयेत् ॥ विल्ववृक्ष महाभाग महेशस्य सदा प्रियः । शिवदर्शनकज्योतिः प्रसीदाब्धिसुतास्तन ॥ नर एतेन मत्रेण प्रफुल्लाक्षः प्रगे शुभम् । प्रपश्येत् स शिवं पश्येत् प्रणमेत्तदनन्तरम् ॥ ॐ नमो विल्वतरवे सदा शङ्कररूपिणे । सफलानि ममाङ्गानि कुरुष्व शिवहर्षद ॥ मन्त्रेणानेन मालूरमष्टाङ्गैः प्रणमेत् कृती । स वैष्णवो मतो भक्तः स मे प्रियतरः परः ॥ शिवपूजक मालूर प्रियस्पर्श महातरो । स्पुशामि त्वां महापापसञ्चयान् मे प्रणाशय ॥ देववृक्षवरश्रेष्ठ स्थानन्ते सुमनोहरम् । क्रीडन्त्यागत्य विबुधा मार्ज्जये तत् प्रसीद मे ॥ मन्त्रेणानेन विल्वस्य दशहस्तस्थलं मृजेत् । सगोमयजलैः प्रातःसमये स तु वैष्णवः ॥ ॐ द्रुमाय श्रीफलाय नमो दशभिरक्षरैः । मन्त्रेण पूजयेद्विल्वं जपेच्छक्तिक्रमात्तथा ॥ पुण्यवृक्ष महाभाग मालूर श्रीफल प्रभो । महेशपूजनार्थाय तत्पत्राणि चिनोम्यहम् ॥ मन्त्रेणानेन चिनुयाद्विल्वपत्राणि भक्तितः । पक्षान्तद्वादशीसायं मध्याह्नभिन्नकालतः ॥ शाखाभङ्गो न कर्त्तव्यो नैवारोहेत्तथा तरुम् । वरमारुह्य चिनुयान्न शाखाभञ्जनं क्वचित् ॥ खण्डितैश्च शिवः पूज्यः पत्रैरन्यैश्च खण्डितैः । षण्मासानन्तरं विल्वपत्रं पर्य्युषितं भवेत ॥ पूज्या एतेन वै देवाः सूर्य्यलम्बोदरौ विना । विल्ववृक्षवनं यत्र सा तु वाराणसी पुरी ॥ पञ्च विल्वद्रुमा यत्र तत्र तिष्ठेत् स्वयं हरिः । सप्त विल्वद्रुमा यत्र तत्र दुर्गायुतो हरः ॥ एको विल्वतरुर्यत्र तत्र शम्भुर्म्मया सह । विल्ववृक्षा यत्र दश तत्र शम्भुर्गणैः सह ॥ एतान्युक्तानि तीर्थानि देवाः सर्व्वे मरुद्गणैः यत्र वाट्यां गृहस्थस्य कोण ईशाननामके । जायते श्रीफलतरुर्न तत्र विपदः क्वचित् ॥ पूर्ब्बस्यां सुखदः स स्याद्दक्षिणे यमभीतिहा । पश्चिमे च प्रजादायी वृक्षो विल्व उदाहृतः । श्मशाने च नदीतीरे प्रान्तरे वा वनान्तरे । विल्ववृक्षतलं प्रोक्तं सिद्धपीठस्थलं सुधीः ॥ न मध्यप्राङ्गणे वृक्षं स्थापयेत् श्रीफलाख्यकम् । दैवाद्यदि प्रजायेत तदा शिववदर्च्चयेत् ॥ चैत्रादिचतुरो मासान् शम्भवे परमात्मने । दत्तं स्याद्विल्वपत्रैकं लक्षधेनुसमं सुराः ॥ मध्याह्नकाले ये मर्त्या विल्वं कुर्य्युः प्रदक्षिणम् । तैः सुमेरुर्गिरिवरः कृत एव प्रदक्षिणम् ॥ न च्छिन्द्यात् श्रीफलतरु न दहेत् काष्ठमेव च । विना ब्राह्मणयज्ञार्थं पतितो विल्वविक्रयी ॥ पक्वविल्वसमुद्घृष्टं यो धते मूर्द्ध्नि मानवः । यमाधिकारो नात्र स्यात् हृतः पापोपपातकैः ॥ विल्वपत्रं फलं बीजं भूमौ पतितमीश्वरः । स्वयं गृह्णाति शिरसा वैयर्थ्यभयशङ्कितः ॥ चैत्रादिचतुरो मासान् सिञ्चेद्विल्वतरु कृती । यथा स्निग्धो भवेद्वृक्षस्तथा तत्पितरोऽपि च । चैत्रादिचतुरो मासान् सदा भ्रमति शङ्करः । नवीनविल्वपत्रार्थी भुक्तिमुक्तिप्रदायकः ॥ हरिद्रानगरे यत्र वैद्यनाथो महेश्वरः । तत्राक्षयो विल्ववृक्षः स्वर्णवृक्ष उदाहृतः ॥ कामरूपे कामतरुः काश्यामुक्तस्तथादिमः । काञ्चीपुरे पुरः प्रोक्तः श्रीफलोऽक्षयपुण्यदः । तेऽपि तीर्थविशेषाः स्युस्तीर्थेष्वपि सदातुलाः ॥ देव्युवाच । एतस्मिन्नेव काले तु शम्भुरागत्य वै सखि । ब्रह्मणा विष्णुना पत्रैः पूजितः श्रीफलैरभूत् ॥ ततः सर्व्वे यथास्थानं जग्मुर्नारायणादयः । कथितोऽयं मया सख्यौ विल्ववृक्षस्तरूत्तमः ॥ अयं वां संप्रोक्तः शिवतरुकथापुण्यनिचयः पवित्रः श्रोतव्यः श्रवणरमणीयः खलु सताम् । शिवे विष्णौ भेदापहरण उदारः सुमनसां सुसेव्यः संपाव्यः प्रभवति शिवस्यापि निकटः ॥” इति च बृहद्धर्म्मपुराणे विल्ववृक्षमाहात्म्यम् ११ अध्यायः ॥ * ॥
तन्त्रमते तस्योत्पत्तिर्यथा, — देव्युवाच । “कथं सा विष्णुवनिता विल्ववृक्षो बभूव ह । ज्योतीरूपं मदंशं प्रार्थिता ब्रह्मादिभिः सदा ॥ तत्र मेऽनुग्रहाद्वाणी सर्व्वेषां प्रियतां गता । विष्णोरतिप्रिया नित्यं साभूत् सरस्वती सदा ॥ तादृक् प्रीतिर्न लक्ष्म्याञ्च जायते केशवस्य च । इतिचिन्तापरा लक्ष्मीर्ययौ श्रीशैलमन्दिरम् ॥ प्राप्य मल्लिङ्गमेकान्तं तपस्तेपेऽतिदारुणम् । तथापि यदि नैवाभूत् कृपा मे परमेश्वरि ॥ तदा सा वृक्षरूपेण स्थिता लिङ्गप्रिया सती । पत्रैः पुष्पैः फलैः स्वीयैः पूजयामास सन्ततम् ॥ कोटिवर्षं महादेवि ततो मेऽनुग्रहोऽभवत् । तेनैवानुग्रहेणैव विष्णोर्वक्षःस्थिताभवत् ॥ सदैव परमेशानि विप्रवश्या सदैव हि । अतस्तु कारणाद्देवि तद्रूपेण हरिप्रिया ॥ सदैव पूजयेन्मां सा मद्भक्ता सातुला शिवे । अतस्तं वृक्षमाश्रित्य तिष्ठामि च दिवानिशम् ॥ सर्व्वतीर्थमयो देवि सर्व्वदेवमयः सदा । श्रीवृक्षः परमेशानि अतएव न संशयः ॥ * ॥
तत्फलैस्तत्प्रसूनैर्व्वा तत्पत्रैर्यः प्रपूजयेत् । तत्काष्ठचन्दनैर्व्वापि स मे भक्तः स मे प्रियः ॥ तत्काष्ठचन्दनं भाले यो धारयति सम्भ्रमात् । तत्तनुं शिवबुद्ध्या सा नमेद्देवी मुदान्विता ॥ अतस्तच्चन्दनं देवि न धारयति कश्चन । तत्पत्रं तत्प्रसूनं वा कदापि धारयेन्नहि ॥ विल्वमूले महेशानि प्राणांस्त्यजति यो नरः । रुद्रदेहो भवेत् सत्यं पापकोटियुतोऽपि सन् ॥” इति योगिनीतन्त्रे पूर्ब्बखण्डे ५ पटलः ॥ * ॥
अपि च । “विल्ववृक्षं तथा देवि भगवान् शङ्करः स्वयम् । विल्ववृक्षतले स्थित्वा यदि प्राणांस्तजेत् सुधीः ॥ तत्क्षणान्मोक्षमाप्नोति किन्तस्य तीर्थकोटिभिः । यत्र ब्रह्मादयो देवास्तिष्ठन्ति शक्तिहेतवे ॥ विल्ववृक्षतले स्थानं यदि विष्ठादिपूरितम् । तदेव शाङ्करं क्षेत्रं सर्व्वतीर्थमयं सदा ॥ सर्व्वपीठमयं तत्तु सर्व्वदेवमयं सदा । न त्यजेत् शाङ्करं क्षेत्रं न च गङ्गां त्यजेत् प्रिये ॥ समीपे स च चार्व्वङ्गि विल्ववृक्षो यदि प्रिये । काशीपुरसमं तत्तु तत्र प्राणान् त्यजेद्यदि । किन्तस्य कोटितीर्थेन काशीवासेन किं प्रिये ॥” इति पुरश्चरणरसोल्लासे १० पटलः ॥ * ॥
तद्दानविधिर्यथा, —
“पत्रं वा यदि वा पुष्पं फलं नेष्टमधोमुखम् । यथोत्पन्नं तथा देयं विल्वपत्राण्यधोमुखम् ॥” इति मातृकातन्त्रे ५५ पटलः ॥ श्रीशिव उवाच । “शृणु देवि प्रवक्ष्यामि रहस्यं त्रिजटात्मकम् । पत्रं ब्रह्ममयं देवि अद्भुतं वरवर्णिनि ॥ श्रीशैलशिखरे जातः श्रीफलः श्रीनिकेतनः । विष्णुप्रीतिकरश्चैव मम प्रीतिकरः सदा ॥ ब्रह्मविष्णुशिवाः पत्रे वृन्तञ्च शक्तिरूपिणी । वृन्तमूले तु वज्रं स्यात् पत्रे ब्रह्मपदं प्रिये ॥ त्रिजटापत्रकैकेन हरं वा हरिमर्च्चयेत् । कैवल्यं तस्य तेनैव शक्तिपूजा विशेषतः ॥ पत्रं पुष्पं फलं तोयं नैवेद्यं धूपदीपकम् । दत्त्वा यद्यत् फलं प्राप्तं तस्मात् कोटिगुणं भवेत् ॥ सर्व्वैरर्च्चनतो देवि त्रिजटामेकमर्पणम् । कैवल्यदो हरिश्चैव दास्येऽहं त्वां स्वरूपताम् ॥ त्वयि कैवल्यदं ज्ञानं धर्म्मकामार्थदं प्रिये । वज्रहीनमिदं देवि प्राप्नुयाद्वाञ्छितं फलम् ॥ सवज्रे म्रियते नूनं वज्राघातेन पार्व्वति । तस्माच्च साधकेन्द्रेण वज्रहीनं प्रदापयेत् ॥” * ॥
विल्वपत्रघ्राणग्रहणानन्तरगमनफलम् । यथा, “ध्राणं गृहीत्वा यो गच्छेत् सर्व्वसिद्धिमवा- प्नुयात् । ऊर्द्ध्वं सुदर्शनं रक्षेदधः पाशुपतस्तथा । पुरो माहेश्वरी रक्षेत् पृष्ठे च शूलधारिणी । दक्षपार्श्वे च श्रीनाथो वामपार्श्वे प्रजापतिः । चन्द्रसूर्य्यौ धृतौ छत्रमहं पादौ करौ सदा ॥” इति ज्ञानभैरवतन्त्रे शिवपार्व्वतीसंवादे ६ पटलः ॥ (अस्य गुणाः यथा, —
“बालं विल्वफलं ग्राहि दीपनम्पाचनङ्कटु । कषायोष्णं लघु स्निग्धं तिक्तं वातकफापहम् ॥ पक्वं गुरु त्रिदोषं स्याद्दुर्ज्जरं पूतिमारुतम् । विदाहि विष्टम्भकरं मधुरं वह्निमान्द्यकृत् ॥ फलेषु परिपक्वं यद्गुणवत्तदुदाहृतम् । विल्वादन्यत्र विज्ञेयमामन्तद्धि गुणाधिकम् । द्राक्षाविल्वशिवादीनां फलं शुष्कं गुणाधि- कम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)