संस्कृत-शब्दकोशः

विवर्तन विवस्वती

विवश

वाचस्पत्यम्

विवश ||‍ त्रि० विगतो वश आयत्तता यस्य । १ अस्वतन्त्रे २ व्याकुले ३ अरिष्टबुद्धियुते मेदि० ।


शब्दकल्पद्रुमः

विवशः || त्रि (विरुद्धं वष्टीति । वि + वश + अच् ।)
अवश्यात्मा । अरिष्टदुष्टधीः । इति मेदिनी ॥ द्वे आसन्नमरणसूचितलक्षणेन दूषितबुद्धौ । विरुद्धं वष्टि विवशः अल् । आसन्नमरणख्यापकं लिङ्गमरिष्टम् । तेन दुष्टा धीर्यस्य स तथा । इत्यमरटीकायां भरतः ॥



Correction: