वाचस्पत्यम्
विवाह्य || त्रि० वि + वह—ण्यत् । १ विवाहयोग्ये २ विशेषेण वाह्ये च ।
शब्दकल्पद्रुमः
विवाह्यः || पुं, (वि + वह + णिच् + यत् ।)
जामाता । इति केचित् ॥ विवाहयोग्ये, त्रि ॥ (यथा, कथासरित्सागरे । ३३ । १९० । “पद्मावत्या ऋते राज्ञ्या न विवाह्यापरेति यत् । प्रोक्तं देवि प्रतिज्ञातं मया निर्व्यूढमद्य तत् ॥”)