संस्कृत-शब्दकोशः

विवाह्य विविक्ता

विविक्त

वाचस्पत्यम्

विविक्त ||‍ त्रि० वि + विच—क्त । १ निर्जने २ पवित्रे अमरः ३ असंयुक्ते च । ४ कर्त्तरि—क्त । ४ विवेकिनि त्रि० मेदि० ५ दुर्भगायां स्त्रियां स्त्री त्रिका० ।


शब्दकल्पद्रुमः

विविक्तं || त्रि (वि + विच + क्तः ।)
पवित्रम् । विजनम् । इत्यमरः ॥ (यथा, गीतायाम् । १३ । १० । “विविक्तदेशसेवित्वमरतिर्ज्जनसंसदि ॥”)
असम्पृक्तः । (यथा, माघे । ११ । १७ । “पुनरुषसि विविक्तैर्म्मातरिश्वावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां रजोभिः ॥”)
विवेकी । इति मेदिनी ॥



Correction: