संस्कृत-शब्दकोशः

विवृत विवृताक्ष

विवृता

शब्दकल्पद्रुमः

विवृता || स्त्री क्षुद्ररुग्भेदः । इति मेदिनी ॥ तल्लक्षणं यथा, —
“विवृतास्यां महादाहां पक्वोडुम्बरसन्निभाम् । विवृतामिति तां विद्यात् पित्तोत्थां परिमण्ड- लाम् ॥” परितः शोथवतीम् ॥ * ॥
अस्याश्चिकित्सा । “विवृतामिन्द्रवृद्धाञ्च गर्द्दभीं जालगर्द्दभम् । पैत्तिकस्य विसर्पस्य क्रियया साधयेद्भिषक् । पाके तु रोपयेदाज्यैः पक्वैर्म्मधुरभेषजैः ॥” इति भावप्रकाशः ॥ (विवृत्तेति क्वचित् पाठः ॥)



Correction: