वाचस्पत्यम्
विवृति || स्त्री वि + वृ—क्तिन् । १ विस्तारे मेदि० २ व्याख्याने च । “वाक्यस्य शेषाद्विवृतेर्वदन्ति” शक्तिग्राहकमानम् ।
शब्दकल्पद्रुमः
विवृतिः || स्त्री व्याख्या । विपूर्ब्बवृधातोः क्तिप्रत्य- येन निष्पन्नमिदम् । विवरणम् । यथा, —
“शक्तिग्रहं व्याकरणोपमान- कोषाप्तकाक्याद्व्यवहारतश्च । वाक्यस्य शेषात् विवृतेर्व्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ॥” इति मलमासतत्त्वम् ॥