वाचस्पत्यम्
विशय || पु० वि + शी—अच् । संशये “विषयो विशयश्चैवेति” मीमांसा ।
शब्दकल्पद्रुमः
विशयः || पुं, (वि + शी + अच् ।)
संशयः । यथा, “विषयो विशयश्चैव पूर्व्वपक्षस्तथोत्तरम् । निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् ॥” विषयो विचारार्हवाक्यम् । विशयोऽस्यायमर्थो न वा इति संशयः । इति तिथ्यादितत्त्वम् ॥ आश्रयः । इति केचित् ॥